पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६२

पुटमेतत् सुपुष्टितम्
( ६० )
रघुवंशे

 उवाचेति ॥ सोऽर्भकहः शिशुः॥" पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः ॥ धात्र्योपमाला ॥“धात्री जनन्यामलकीवसुमत्युपमातृषु" इति विश्वः ॥ प्रथममुदितमुपदिष्टं वच उवाच । तदीयामङ्गुलिमवलम्ब्य ययौ च । प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च । इति यत्तेन पितुर्मुदं ततान ॥

  तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
  उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ।। २६॥

 तमिति ॥ शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् । नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रसः स्वादः॥

  अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
  स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥२७॥

 अमंस्तेति ॥ स्थितेरभेत्ता मर्यादापालकः स नृपः परार्घ्यजन्मनोत्कृष्टजन्मनानेन रघुणान्वयं वंशम् । प्रजानां पतिर्ब्रह्मा । गुणाः सत्त्वादयः । तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती । तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनात्मनः सर्गं सृष्टिमिव । स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म ॥ मन्यतेरनुदात्तत्त्वादिट्प्रतिषेधः ॥ अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि॥तत्र रघुपक्षे गुणा विद्याविनयादयः॥ “गुणोऽप्रधाने रूपादौ मौर्व्यां सूदे वृकोदरे । स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु" इति विश्वः॥ शेषं सुगमम् ।।

  स वृ[१]त्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
  लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥२८।।

 स इति ॥ "चूडा कार्या द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्या श्रुतिचोदनात्" इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन् ॥ डलयोरभेदः॥ स रघुः ॥ "प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्" इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः॥"बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः" इति हलायुधः ॥ सवयोभिः स्निग्धैः ॥"स्निग्धो वयस्यः सवयाः" इत्यमरः ॥ अमात्यपुत्रैरन्वितः सन् । लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम् । नद्या मुखं द्वारम् ॥ "मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः" इति यादवः ॥ तेन कश्चिन्मकरादिः

समुद्रमिव । आविशत्प्रविष्टः। ज्ञातवानित्यर्थः॥


  1. वृत्तचौलः; वृत्तचूडः