पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६३

पुटमेतत् सुपुष्टितम्
( ६१ )
तृतीयः सर्गः ।

  अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
  अवन्ध्ययत्नाश्च बभूवुर[१]त्र ते क्रिया हि वस्तूपहिता प्रसीदति॥२९॥

 अथेति ॥ “गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः" इति मनुस्मरणादथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः ॥ ते गुरवोऽत्रा- स्मिन्रघाववन्ध्ययत्राश्च बभूवुः ॥ तथाहि । क्रिया शिक्षा ॥ "क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु" इति यादवः ॥ वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति ॥ "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति कौटिल्यः॥

  धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
  ततार विद्याः पवना[२]तिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः॥३०॥

 धिय इति ॥ अत्र कामन्दक:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इति । “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः" इति च ॥ उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः । चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमा ॥"तद्धितार्थोत्तरपदसमाहारे च" इत्युत्तरपदसमासः ॥ चतस्रो विद्याः । हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः ॥ “हरित्ककुभि वर्णे च तृणवाजिविशेषयोः" इति विश्वः ॥ चतस्रो दिश इव । क्रमात्ततार ॥ चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥

  त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव म[३]न्त्रवत् ।
  न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः॥३१॥

 त्वचमिति ॥ स रघुः ॥ “कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमादिकानि च" इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरुसंबिन्धिनीम् ॥ "रुरुर्महाकृष्णसारः" इति यादवः ॥ त्वचं चर्म परिधाय वसित्वा मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् ॥ “आख्यातोपयोगे" इत्यपादानसंज्ञा॥ पितुरेवेत्यवधारणमुपपादयति-नेति ॥ तद्गुरुरेकोऽद्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत् । किंतु क्षितौ स दिलीप एको

धनुर्धरोऽप्यभूत् ॥


  1. अर्भके
  2. अतिवर्तिभिः.
  3. मन्त्रवित् .