पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६४

पुटमेतत् सुपुष्टितम्
( ६२ )
रघुवंशे

  महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
  रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गा[१]म्भीर्यमनोहरं वपुः॥३२॥

 महोक्षतामिति॥ रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन् । महानुक्षा महोक्षो महर्षभः ॥ "अचतुर-" आदिसूत्रेण निपातनादकारान्तत्वम् ॥ तस्य भावस्तत्ता । तां स्पृशन्गच्छन्वत्सतरो दम्य इव ॥ “दम्यवत्सतरौ समौ" इत्यमरः ॥ द्विपेन्द्रभावं महागजत्वं श्रयन्व्रजन्कलभः करिपोत इव । गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष ॥

  अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः।
  नरेन्द्रकन्यास्तमवाप्य सत्पतिं त[२]मोनुदं दक्षसुता इवाबभुः॥३३॥

 अथेति ॥"गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । 'पुंस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु" इति केशवः ॥ गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते ॥ तदुक्तं मनुना-"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः" इति ॥ अथ गुरुः पिता ॥ “गुरुर्गीष्पतिपित्रादौ" इत्यमरः ॥ अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् । कृतवानित्यर्थः ॥ अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव ॥ “तमोनुदाऽग्निचन्द्रार्काः" इति विश्वः ॥ सत्पतिमवाप्यावभुः । रघुरपि तमोनुत् ॥ अत्र मनु:-"वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्" इति ॥

 संप्रति यौवराज्ययोग्यतामाह-

  युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः।
  वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥३४॥

 युवेति ॥ युवा । युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः ॥ “यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु" इत्यमरः ॥ युगवद्व्यावत्तौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान् । मांसलश्चेति वृत्तिकारः॥ "बलवान्मांसलोंऽसलः" इत्यमरः ॥ "वत्सांसाभ्यां कामबले" इति लच्प्रत्ययः ।।

कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः ।। परिणाहो विशालता" इत्य-


  1. गम्भीर.
  2. तमोपहम्.