पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६५

पुटमेतत् सुपुष्टितम्
( ६३ )
तृतीयः सर्गः ।

मरः ॥ रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत् । तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत । अनौद्धत्यं च विवक्षितम् ॥

 संप्रति तस्य यौवराज्यमाह-

  ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
  निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥३५॥

 तत इति ॥ तत आत्मना चिरं धृतां नितान्तगुर्वीम् ॥ “वोतो गुणवचनात्" इति ङीष् ॥ प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता ॥ " तत्करोति तदाचष्टे” इति लघुशब्दाण्णिच् । ततो “ लुटः सद्वा" इति शतृप्रत्ययः ॥ नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः ॥ युवराज इति शब्दं भजतीति तथोक्तः ॥ भजो ण्विः " इति ण्विप्रययः ॥ चक्रे कृतः ॥“द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कौटिल्यः॥ तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दकः- “विनयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते । विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्” इति ॥

  नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
  अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥३६॥

 नरेन्द्रेति ॥ गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी श्रीराज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादानात् । अनन्तरं संनिहितम् । युवराज इति संज्ञास्य संजाता युवराजसंज्ञितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ आत्मनः पदं स्थानमास्पदम् ॥ “आस्पदं प्रतिष्ठायाम्" इति निपातः ॥ स रघुरित्यास्पदं तदास्पदम् । कमलाश्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनागच्छत् ।। स्त्रियो हि यूनि रज्यन्त इति भावः ॥

  विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
  बभूव तेनातितरां सु[]दुःसहः कटप्रभेदेन करीव पार्थिवः॥ ३७॥

 विभावसुरिति ॥ सारथिना सहायभूतेन । एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम् । वायुना विभावसुर्वह्निरिव ॥ "सूर्यवह्नी विभावसू"इत्यमरः ॥ धनव्यपायेन

शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्डः ॥ "गण्डः कटो


  1. दुरासहः.