पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६६

पुटमेतत् सुपुष्टितम्
( ६४ )
रघुवंशे

मदो दानम्" इत्यमरः ॥ तस्य प्रभेदः स्फुटनम् । मदोदय इत्यर्थः। तेन करीव । पार्थिवो दिलीपस्तेन रघुणातितरामत्यन्तं सुदुःसहः सुष्टुसह्यो बभूव ॥

  नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
  अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः॥३८॥

 नियुज्येति ॥ शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः । “शतं वै तुल्या राजपुत्रा देवा आशापालाः" इत्यादिश्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरंगाणां रक्षणे नियुज्य । एकेन क्रतुनापूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नपमपगतविघ्नं यथा तथाप ॥

  ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः।
  धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥३९॥

 तत इति ॥ ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम् ॥ “क्रियार्थोपपदस्य-" इत्यादिना चतुर्थी ॥ उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम् । अव्याहतस्वैरगतिमित्यर्थः ॥ “अपर्यावर्तयन्तोऽश्वमनुचरन्ति" इत्यापस्तम्बस्मरणात् ॥ तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिह्ये ॥

  विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
  वशिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी॥४०॥

 विषादेति ॥ तत्कुमारस्य सैन्यं सेना सपदि । विषाद इष्टनाशकृतो मनोभङ्गः । तदुक्तम्- "विषादश्चेतसो भङ्ग उपायाभावनाशयोः" इति ॥ तेन लुप्ता प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत्तथोक्तम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत्।स्थितं तस्थौ ॥ अथ श्रुतप्रभावा यदृच्छया स्वेच्छयागता॥ रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः ॥ नन्दिनी नाम वशिष्ठधेनुश्च ददृशे ॥ द्वौ चकारावविलम्बसूचकौ ॥

  तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
  अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः॥४१॥

 तदिति ॥ सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । मूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोषयित्वा।

अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु ॥"अत्यादयः कान्ताद्यर्थे द्वितीयया" इति


१ अंतः. २ रक्षताम्.