पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६७

पुटमेतत् सुपुष्टितम्
( ६५ )
तृतीयः सर्गः ।

समासः । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम् ॥ भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ॥

  स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।
  पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥४२॥

 स इति ॥ नरदेवसंभवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितोद्धत्यं रथस्य रश्मिभिः प्रग्रहैः ॥ "किरणप्रग्रहौ रश्मी" इत्यमरः ॥ संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ॥

  शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः।
  अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥४३॥

 शतैरिति ॥ रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः ॥ "हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः" इति विश्वः ॥ वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा ॥ “हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु" इति विश्वः ॥ एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निवावोचत् ॥

  मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र स[]दा निगद्यसे ।
  अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे॥४४॥

 मखेति ॥ हे देवेन्द्र । मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे ॥ तथाप्यजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय क्रतुविघाताय । क्रियां विहन्तुमित्यर्थः ॥ “तुमर्थाच्च भाववचनात्" इति चतुर्थी । कथं प्रवर्तसे ॥

  त्रिलोकनाथेन स[]दा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
  स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः॥४५॥.

 त्रिलोकेति ॥ त्रयाणां लोकानां नाथस्त्रिलोकनाथः ॥ "तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तेन त्रैलोक्यनियामकेन दिव्यचक्षुषातीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत् । विधिरनुष्ठानं च्युतः क्षतः।

लोके सत्कर्मकथैवास्तमियादित्यर्थः ॥


  1. यतः
  2. सता ; सताम्