पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ६९ )
तृतीयः सर्गः ।

इत्यमरः ॥ त इव भीमदर्शनाः सपक्षाः सर्पा इव । द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ॥

  अतिप्रबन्धप्रहितास्त्रदृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः।
  शशाक निर्वापयितुं न वासवः स्वतश्युतं वह्निमिवाद्भिरम्बुदः॥५८॥

 अतीति ॥ वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्त्रदृष्टिभिर्दुष्पसहस्य दुःखेन प्रसह्यत इति दुष्पसहं तस्य । दुःखेनाप्यसह्यस्येसर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोद्भिः स्वतश्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक ॥ रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः ॥

  ततः प्रकोष्ठे हरिचन्दनाङ्कित प्रमथ्यमानार्णवधीरनादिनीम् ।
  रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः॥५९॥

 तत इति ॥ ततो रघुर्हरिचन्दनाङ्कित प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्यानोतीति विट् व्यापकमोजो यस्य स तस्य बिडौजस इन्द्रस्य ॥ पृषोदरादित्वात्साधुः ॥ शरासनज्यां धनुर्मौर्वीम् । शशाङ्कस्याः खण्ड इव मुखं फलं यस्य तेन पत्रिणालुनादच्छिनत् ॥

  स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः।
  महीध्रपक्षव्य[१]परोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥६०॥

 स इति ॥ विवृद्धमत्सरः प्रद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्यभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ॥

  रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
  निमेषमात्रादवधूय त[२]द्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥६१॥

 रघुरिति ॥ रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात । तस्मिन्पतिते ते रुरुदुरित्यर्थः । निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च ।

तस्मन्नुथ्थिते हर्षात्सिंहनादांश्चक्ररित्यर्थः॥


  1. व्पपरोपणोद्धतम् ; व्यपरोपणोद्धृतम्.
  2. च व्यथाम्.