पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ७० )
रघुवंशे

  तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
  तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणै[१]र्निधीयते ॥६२॥

 तथापीति ॥ तथापि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन । वृत्रं हतवानिति वृत्रहा ॥ "ब्रह्मभ्रूणवृतेषु क्विप्"॥ तुतोष । स्वयं वीर एव वीरं जानातीति भावः ॥ कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते । गुणैः सर्वत्र संक्रम्यत इत्यर्थः ॥ गुणाः शत्रूनप्यावर्जयन्तीति भावः॥

  अं[२]सङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
  [३]वेहि मां प्रीतमृते तुरंगमात्कि[४]मच्छसीति स्फुटमाह वासवः॥६३॥

 असङ्गमिति ।। सारवत्याद्रिष्वसङ्गमप्रतिबन्धं म आयुधं वज्रं त्वदन्येन न विसोढम् ॥ अतो मां प्रीतं संतुष्टमवेहि । तुरंगमादृते तुरंगं वर्जयित्वा ॥ “अन्या- रादितरर्ते-" इति पञ्चमी ॥ किमिच्छसीति स्फुटं वासव आह । तुरंगमादन्यददेयं नास्तीति भावः॥

  ततो निषङ्गा[५]दसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
  [६]रेन्द्रसूनुः प्रतिसंहरन्निषुं प्रि[७]यंवदः प्रत्यवदत्सुरेश्वरम् ॥ ६४॥

 तत इति ॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोदृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषु प्रतिसंहरन्निवर्तयन् । नामहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति, प्रियंवदः ॥ “प्रियवशे वदः खच्" इति खच्प्रत्ययः। "अरुषि-" इत्यादिना मुमागमः ॥ नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत् । न तु प्राहरदिति भावः॥

  अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
  अजस्रदीक्षाप्रयतः स[८] मद्गुरुः क्रतोरशेषेण फलेन युज्यताम्॥६५॥

 अमोच्यमिति ॥ हे प्रभो इन्द्र । अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्माणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण

कृत्स्नेन युज्यतां युक्तोऽस्तु ।। अश्वमेधफललाभे किमश्वेनेति भावः॥


  1. विधीयते.
  2. अभङ्गम्.
  3. अवैहि.
  4. वरं वृणीष्वेति तमाह वृत्रहा; वरं वृणीष्वेति तमादिदेश
    सः.
  5. असमग्रनिःसृतम्.
  6. दिलीपसूनुः.
  7. प्रियंवदम्.
  8. च मे गुरुः.