अथेति ॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् ॥ “ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि" इति विश्वः ॥ सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानियर्थः॥ तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम् ॥ तद्राजसंज्ञकत्वादणो लुक् ॥ इदं वनगमनं कुलव्रतम् ॥ देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः--"सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्” इति ॥ हरिणीवृत्तमेतत् । तदुक्तम्-- “रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यथा
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुराज्याभिषेको नाम तृतीयः सर्गः ।
चतुर्थः सर्गः।
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं संनिधिं क्रियात् ॥
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥
स इति ॥ स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् ॥ पुरोहितादित्वाद्यक् ॥ प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽनिरिव । अधिकं बभौ ॥ “सौर तेजः सायमग्निं संक्रमते । आदियो वा अस्तं यनग्निमनुमविशति । अग्नि वा आदिसः सायं प्रविशति" इत्यादिश्रुतिः प्रमाणम् ।।
दिलीपेति ॥दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं
\