पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७५

पुटमेतत् सुपुष्टितम्
( ७३ )
चतुर्थः सर्गः ।

दिलीपकाले राजा हृदये प्रकर्षेण धूमोऽस्य संजातः प्रधूमितोऽग्निः संतापाग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसंतापोऽभूदित्यर्थः।। राजकर्तृकस्यापि निशमनस्याग्नावुपचरान्न समानकर्तृकत्वविरोधः ॥

  पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
  नवाभ्युत्थानदर्षिन्यो ननन्दुः स[१]प्रजाः प्रजाः॥३॥

 पुरुहूतेति ॥ पुरुहूतध्वज इन्द्रध्वजः ॥ स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-“एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर। पर्जन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः" इति । “चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । आहुः शक्रध्वजं नाम पौरलोकसुखावहम्" ॥ पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । उदूर्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजा जनाः ॥"प्रजा स्यात्संततौ जने" इत्युभयत्राप्यमरः ॥ ननन्दुः ॥

  सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
  तेन सिंहासनं पि[२]त्र्यमखिलं चारिमण्डलम् ॥४॥

 सममिति ॥ द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामिना ॥ “कर्तर्युपमाने" इति “सुप्यजातौ-" इति च णिनिः ॥ तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् ॥ किं तद्वयम् ॥ पितुरागतं पित्र्यम् ॥ “पितुर्यत्" इति यत्प्रत्ययः॥ सिंहासनम् । अखिलमरीणां मण्डलं राष्ट्रं च ॥

 अथ सिंहासनारोहणानन्तरं तस्य लक्ष्मीसंनिधानमाह-

  छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
  पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥५॥

 छायेति॥ अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते- पद्मा लक्ष्मीः ॥ " लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया" इत्यमरः । सा स्वयमदृश्या किल । किलेति संभावनायाम् । सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन । न तु स्वरूपतो दृश्येन ॥ छायामण्डलमित्यनेनानातपज्ञानं लक्ष्यते॥ “छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्युभयत्राप्यमरः।

पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः॥


  1. सुप्रजाः.
  2. पैत्र्यम् .