पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७६

पुटमेतत् सुपुष्टितम्
( ७४ )
रघुवंशे

 संप्रति सरस्वती सांनिध्यमाह-

  परिकल्पितसांनिध्या काले काले च बन्दिषु ।
  स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥६॥

 परिकल्पितेति ॥ सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु॥"नित्यवीप्सयोः" इति वीप्सायां द्विर्वचनम् ॥ बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम् । अर्थ्याभिरर्थादनपेताभिः ॥ “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ स्तुतिभिः स्तोत्रैरुपतस्थे । देवताबुद्ध्या पूजितवतीत्यर्थः ॥ देवतात्वं च “ना विष्णुः पृथिवीपतिः" इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम् ॥ एवं च सति “उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु" इति वक्तव्यादात्मनेपदं सिध्द्यति ॥

  मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
  तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा॥७॥

 मन्विति ॥ वसुंधरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्युक्ता यद्यपि। भुक्तैवेत्यर्थः ॥ यद्यपीत्यवधारणे ॥ “अप्यर्थे यदिवार्थे स्यात्" इति केशवः ॥ तथापि तस्मिन्राज्ञि । अन्यः पूर्वो यस्याः सान्यपूर्वा । अन्यपूर्वा न भवतीत्यनन्यपूर्वा । अनन्योपभुक्तेवासीत् । तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः ।।

 अत्र कारणमाह-

  स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
 आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥८॥

 स इति ॥ हि यस्मात्कारणात्स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार । क इव । अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ दक्षिणो दक्षिणदिग्भव नभस्वान्वायुरिव । मलयानिल इवेत्यर्थः ॥ युक्तदण्डतयेत्यत्र कामन्दक:- उद्वेजयति तीक्ष्णेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते" इति।।

  मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
  फलेन सहकारस्य पुष्पोद्गम इव प्रजाः॥९॥

 मन्देति ॥ तेन रघुणा प्रजा गुरौ दिलीपविषये । सहकारोऽतिसौरभश्चूतः ॥ "आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः" इत्यमरः ॥ तस्य फलेन पुष्पोद्गमे पुष्पोदय इव ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पौत्सुक्याः कृताः।

गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः॥