पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७८

पुटमेतत् सुपुष्टितम्
( ७६ )
रघुवंशे

विशेषणमेतत् । शरत् । द्वितीया पार्थिवश्री राजलक्ष्मीरिव । समुपस्थिता प्राप्ता ।। 'रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम् । साम्यं लिङ्गिषु दानवृत्तिकरणं त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे" ॥

  नि[१]र्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।
  प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः॥ १५॥

 निवृष्टेति ॥ निःशेषं वृष्टा निर्वृष्टाः ॥ कर्तरि क्तः । अत एव लघवः । तैर्मेघैर्मुक्तवर्त्मा त्यक्तमार्गः । अत एव सुदुःसहः । तस्य रिपोर्भानोश्च प्रतापः पौरुषमातपश्च ॥ “प्रतापौ पौरुषातपौ" इति यादवः ॥ युगपद्दिशो व्यानशे व्याप ।

  वा[२]र्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।
  प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ १६ ॥

 वार्षिकमिति ॥ इन्द्रः । वर्षासु भवं वार्षिकम् । वर्षानिमित्तमित्यर्थः ॥ “वर्षाभ्यष्टक्" इति उक्प्रत्ययः ॥ धनुः संजहार ॥ रघुजैत्रं जयशीलम् ॥ जेतृशब्दात्तृन्नन्तात् "प्रज्ञादिभ्यश्च" इति स्वार्थेऽण्प्रत्ययः॥ धनुर्दधौ ॥ हि यस्मात्ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य दृष्टिविजयलक्षणस्य साधनविषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ ॥ “पर्यायोद्यमविश्रमौ" इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ । द्वयोः पर्यायकरणादक्लेश इति भावः।

  पुण्डरीकातपत्रस्तं वि[३]कसत्काशचामरः ।
  ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ १७॥

 पुण्डरीकेति ॥ पुण्डरीकं सिताम्भोजमेवातपत्रं यस्य स तथोक्तः । विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामराणि यस्य स तथोक्तः । ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार ॥ तस्य रघोः श्रियं पुनः शोभां तु न प्राप ॥ "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते' इति शाश्वतः॥

  प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे।
  तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः॥१८॥

 प्रसादेति॥प्रसादेन सुमुखे तस्मिन्रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयो-


  1. निर्विष्टलघुभिर्मेघैः सवितुस्तस्य चोभयोः। वर्धिष्णवो दिशा भागान्प्रतापा यत्र रेचिताः.
  2. अधिज्यमायुधं कर्तुं समयोऽयं रघोरिति । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना. (१संहृतम्.
  3. विलसत्.