पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७९

पुटमेतत् सुपुष्टितम्
( ७७ )
चतुर्थः सर्गः ।

विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा । तुल्यभोगेति यावत् ॥ "रसो गन्धे रसः स्वादे" इति विश्वः ॥ आसीत् ।।

  हंसश्रे[१]णीषु तारासु कुमुद्वत्सु च वारिषु ।
  विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ १९॥

 हंसेति ॥ हंसानां श्रेणीषु पङ्क्तिषु । तारासु नक्षत्रेषु । कुमुदानि येषु सन्तीति कुमुद्वन्ति । कुमुद्वान्कुमुदप्रायः इत्यमरः ॥ कुमुदनडवेतसेभ्यो ड्मतुप्" तेषु । कुमुदप्रायेष्वित्यर्थः । वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् । इत्युत्प्रेक्षा ॥ अन्यथा कथमेषां धवलिमेति भावः॥

  [२]क्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
  आकुमारकथोध्दातं शालिगोप्यो जगुर्यशः॥२०॥

 इक्ष्विति ॥ इक्षूणां छायेश्क्षुच्छायम् ॥ “छाया बाहुल्ये" इति नपुंसकत्वम् ।। तत्र निषण्णा इक्षुच्छायनिषादिन्यः ॥ “इक्षुच्छायानिषादिन्यः" इति स्त्रीलिङ्गपाठ इक्षोच्छायेति विग्रहः। अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात् ॥ शालीन्गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्रियः ॥ “कर्मण्यण्" । " टिड्ढाण-" इत्यादिना ङीप् ॥ गोप्तू रक्षकस्य तस्य रघोः । गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्धातः कथारम्भो यस्य तत् । कुमारैरपि स्तूयमानमित्यर्थः । यशो जगुर्गायन्ति स्म ॥ अथवा कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम् ॥ तत्राप्यभिविधावव्ययीभावः ॥ आकुमारकथमुद्धातो यस्मिन्कर्मणि । गानक्रियाविशेषणमेतत् ।। स्यादभ्यादानमुद्धात आरम्भः" इत्यमरः॥ आकुमारकथोद्भूतम्" इति पाठे कुमारस्य सतस्तस्य कथाभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ।।

  प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
  रघो[३]रभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ २१ ॥

 प्रससादेति ॥ महौजसः कुम्भयोनेरगस्त्यस्य ॥ “अगस्त्यः कुम्भसंभवः" इत्यमरः ॥ उदयादम्भः प्रससाद प्रसन्नं बभूव ॥ महौजसो रघोरुदयादभिभवाशङ्किद्विषतां मनश्चुक्षुभे कालुष्यं प्राप ॥ “अगस्त्योदये जलानि प्रसीदन्ति" इत्यागमः॥


  1. श्रेणिषु.
  2. तस्य गोप्तुर्द्विरेफाणां कर्णोत्पलनिपातिनाम् । स्वरसंवादिभिः कण्ठैः शालिगोप्यो
    जगुर्गुणान्
  3. परिभव.