पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८

पुटमेतत् सुपुष्टितम्
( ६ )
रघुवंशे

 वर्ण्य वस्तूपक्षिपति-

  वैवस्वतो मनुर्नाम माननीयो म[]नीषिणाम् ।
  आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥११॥

 वैवस्वत इति ॥ मनस ईषिणो मनीषिणो धीराः । विद्वांस इति यावत् ॥ पृषोदरादित्वात्साधुः॥ तेषां माननीयः पूज्यः। छन्दसां वेदानाम् ॥ “छन्दः पद्ये च वेदे च" इति विश्वः॥ प्रणव ओंकार इव । महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः॥ क्षिधातोरैश्वर्यार्थात्क्विप् तुगागमश्च ॥ तेषामाद्य आदिभूतः । विवस्वतः सूर्यस्यापत्यं पुमान्वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥

  तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
  दिलीप इति रा[]जेन्दुरिन्दुः क्षीरनिधाविव ॥१२॥

 तदन्वय इति ॥ शुद्धिरस्यास्तीति शुद्धिमान् । तस्मिञ्छुद्धिमति तदन्वये तस्य मनोरन्वये वंशे ॥ “ अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्" इति हलायुधः॥ अतिशयेन शुद्धिमाञ्छुद्धिमत्तरः ॥ "द्विवचनविभज्योप-" इत्यादिना तरप् ॥ दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः ।। उपमितं व्याघ्रादिना समासः ॥ क्षीरनिधाविन्दुरिव प्रसूतो जातः ॥

 “व्यूढ-" इत्यादित्रिभिः श्लोकैर्दिलीपं विशिनष्टि-

  व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
  आत्मकर्मक्षमं देहं क्षात्रो धर्म इवा[]श्रितः ॥१३॥

 व्यूढेति ॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः ॥ “उर:प्रभृतिभ्यः कप्"॥ “व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च” इति यादवः॥ वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा ॥ “सप्तम्युपमान-" इत्यादिनोत्तरपदलोपी बहुव्रीहिः॥ शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः॥"प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः" इति यादवः ॥ “उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे” इत्यमरः ॥ महाभुजो महाबाहुः । आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः क्षात्रः क्षत्रसंबन्धी धर्म इव । स्थितः । मूर्तिमान्पराक्रम इव स्थित इत्युत्प्रेक्षा ।

  सर्वातिरिक्तसारेण सर्वतेजोभिभा[]विना।
  स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरिवात्मना ॥१४॥


  1. महीभृताम्.
  2. राजेन्द्रः.
  3. आस्थितः.
  4. विभाविना.