पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८०

पुटमेतत् सुपुष्टितम्
( ७८ )
रघुवंशे

  मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः।
  लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ २२ ॥

 मदेति ॥ मदोदग्रा मदोद्धताः । ककुदेषामस्तीति ककुद्मन्तः । महाककुद इत्यर्थः॥ यवादित्वान्मकारस्य वत्वाभावः । सरितां कूलान्युद्रुजन्तीति कूलमुद्रुजाः। "उदि कूले रुजिवहोः" इति खश्प्रत्ययः ॥ "अरुर्द्विष-" इत्यादिना मुमागमः॥ महान्त उक्षाणो महोक्षाः॥ "अचतुर- " इत्यादिना निपातनादकारान्तः ॥ लीलाखेलं विलाससुभगं तस्य रघोरुत्साहवतो वपुष्मतः परभञ्जकस्य विक्रमं शौर्यमनुप्रापुरनुचक्रुः॥

  प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः।
  असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ २३ ॥

 प्रसवैरिति ॥ मदस्येव गन्धो येषां तैर्मदगन्धिभिः ॥ “उपमानाच्च" इतीकारः समासान्तः ॥ सप्तपर्णानां वृक्षविशेषाणाम् ॥ “सप्तपर्णो विशालत्वक्शारदो विषमच्छदः" इत्यमरः ॥ प्रसवैः पुष्पैराहतास्तस्य रघोर्नागा गजाः ॥“गजेऽपि नागमातङ्गौ” इत्यमरः ॥ असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः ॥ “करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः" इति पालकाव्ये । करान्नासारन्ध्राभ्यामित्यर्थः॥

  सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
  यात्रायै चोद[१]यामास तं शक्तेः प्रथमं शरत् ॥२४॥

 सरित इति ॥ सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गाश्चाश्यानकर्दमाञ्शुष्कपङ्कान्कुर्वती ॥“संयोगादेरातो धातोर्यण्वतः" इति श्यतेर्निष्ठातस्य नत्वम् ॥ शरच्छरदृतुस्तं रघु शक्तेरुत्साहसशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास ॥ प्रभावमन्त्रशक्तिसंपन्नस्य शरत्स्वयमुत्साहमुत्पादयामासेत्यर्थः ।।

  [२]स्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
  प्रदक्षिणार्चिर्व्याजेन हस्तेनेव[३] जयं ददौ ॥२५॥

 तस्मा इति ॥ वाजिनामश्वानां नीराजनाविधौ नीराजनाख्ये शान्तिकर्मणि सम्यग्विधिवध्दुतो होमसमिद्धो वह्निः । प्रगता दक्षिणं प्रदक्षिणम् ॥ तिष्ठद्रुप्रभृतित्वादव्ययीभावः॥ प्रदक्षिणं यार्चिर्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ । उक्तमाहवयात्रायाम् -" इद्धः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगां

करोति" इति ॥ वाजिग्रहणं गजादीनामप्युपलक्षणं तेषामपि नीराजनाविधानात् ।।


  1. नादेयामास; मेरयांमास
  2. सम्यक्तस्य
  3. एव