स गुप्तमूलप्र[१]त्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ २६ ॥
स इति ॥ गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः । शुद्धपार्ष्णिरुद्धृतपृष्ठशत्रुः सेनया रक्षितपृष्ठदेशो वा । अयान्वितः शुभदैवान्वितः ॥ "अयः शुभावहो विधिः" इत्यमरः। स रघुः षड्विधं मौलभृत्यादिरूपं बलं सैन्यम् ॥ “मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्" इति कोषः || आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ॥
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्भूतैः क्षीरोर्मय इवाच्युतम् ॥ २७॥
अवाकिरन्निति॥ वयोवृद्धाः पौरयोषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः । मन्दरोद्ध्दूतैः पृषतैर्बिन्दुभिः क्षीरोर्मयः क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव । अवाकिरन्पर्यक्षिपन् ॥
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ २८ ॥
स इति ॥प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित् । प्राचीनबर्हिरिन्द्रः॥ "पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिस्तथा" इतीन्द्रपर्यायेषु हलायुधाभिधानात् ॥ तेन तुल्यः स रघुः । अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान्रिपूंस्तर्जयन्निव भर्त्सयन्निव ॥ तर्जिभर्त्स्योरनुदात्तेत्त्वेऽपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः॥प्रथमं प्राचीं दिशं ययौ ।
रजोभिः स्य[२]न्दनोद्धूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।। २९ ॥
रजोभिरिति ॥ किं कुर्वन् । स्यन्दनोद्धूतै रजोभिर्घनसंनिभैर्वर्णतः क्रियातः परिमाणतश्च मेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशं भुवस्तलमिव भूतलं च व्योमेव कुर्वन् । ययाविति पूर्वेण संबन्धः॥
प्रतापोऽग्रे ततः शब्दः प[३]रागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ३० ॥
प्रताप इति ॥ अग्रे प्रतापस्तेजोविशेषः ॥ “स प्रभावः प्रतापश्च यत्तेजः कोश-