पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८२

पुटमेतत् सुपुष्टितम्
( ८० )
रघुवंशे

दण्डजम्" इत्यमरः ॥ ततः शब्दः सेनाकलकलः । तदनन्तरं परागो धूलिः ॥ “परागः पुष्परजसि धूलिस्नानीययोरपि" इति विश्वः ॥ पश्चाद्रथादि रथाश्चादिकं चतुरङ्गबलम् ॥ "स्थानीकम्” इति पाठ इतिशब्दाध्याहारेण योज्यम् ॥ इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव ॥ “स्कन्धः प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च" इति हैमः ॥ सा चमूर्ययौ ॥

  मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
  विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ३१॥

 मर्विति॥ स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि ॥"समानौ मरुधन्वानौ” इत्यमरः ॥ उदम्भांस्युद्भूतजलानि चकार । नाव्या नौभिस्तार्या नदीः ॥" नाव्यं त्रिलिङ्गं नौतार्ये" इत्यमरः ॥ “ नौवयोधर्मविषमूल-" इत्यादिना यत्प्रत्ययः ॥ सुप्रतराः मुखेन तार्याश्चकार । विपिनान्यरण्यानि ॥ “अटव्यरण्यं विपिनम्" इत्यमरः ॥ प्रकाशानि निर्वृक्षाणि चकार ॥ शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः ॥

  स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
  बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः॥ ३२ ॥

 स इति ॥ महतीं सेनां पूर्वसागरगामिनीं कर्षन्स रघुः । हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन् । सापि पूर्वसागरगामिनी । भगीरथ इव । बभौ ॥ भगीरथो नाम कश्चित्कपिलदग्धानां सागराणां नप्ता तत्पावनाय हरकिरीटाद्गङ्गां प्रवर्तयिता राजा। यत्संबन्धाद्गङ्गा च भागीरथीति गीयते ॥

  त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः।
  तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥३३॥

 त्याजितैरिति ॥ “फलं फले धने बीजे निष्पत्तौ भोगलाभयोः" इति केशवः ॥ फलं लाभम् । वृक्षपक्षे प्रसवं च । त्याजितैः ॥ त्यजेर्ण्यन्यताद्विकर्मकादप्रधाने कर्मणि क्तः ॥ उत्खातैः स्वपदाच्च्यावितैः । अन्यत्रोत्पाटितैः । बहुधा भग्रै रणे जितैः । अन्यत्र छिन्नैः । नृपैः । पादपैर्दन्तिनो गजस्येव । तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत् ॥ “प्रकाशं प्रकटं स्पृष्टमुल्बणं विशदं स्फुटम्" इति यादवः ॥

  पौरस्त्यानेवेमाक्रामंस्तांस्ताञ्जनपदाञ्जयी।
  प्राप तालीवनश्याममुपकण्ठं महोदधेः॥ ३४ ॥

३०-३१ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

पुरोगैः कलुषास्तस्य सह प्रस्थायिभिः कृशाः ।
पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः ॥