पौरस्त्यानिति ॥ जयी जयनशीलः ॥ “जिदृक्षिविश्री-" इत्यादिनेनिप्रत्ययः ॥ स रघुरेवम् । पुरो भवान्पौरस्त्यान्प्राच्यान् ॥ " दक्षिणापश्चात्पुरसस्त्यक्" इति त्यक्प्रत्ययः ॥ तांस्तान् । सर्वानित्यर्थः ॥ वीप्सायां द्विरुक्तिः ॥ जनपदान्देशानाक्रामंस्तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप ॥
अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्यैर्वृत्तिमा[१]श्रित्य वैतसीम् ॥३५॥
अनम्राणामिति ॥ अनम्राणाम् ॥ कर्मणि षष्ठी ॥ समुद्धर्तुरुन्मूलयितुस्तस्माद्रघोः सकाशात् ॥ “भीत्रार्थानां भयहेतुः" इत्यपादानत्वात्पञ्चमी । सिन्धुरयान्नदीवेगादिव सुह्यैः सुह्मदेशीयैः ।। सुह्मादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते ॥ वैतसीं वेतसः संबन्धिनीं वृत्तिम् । प्रणतिमित्यर्थः । आश्रित्य । आत्मा संरक्षितः ॥ अत्र कौटिल्यः-" बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्ममातिष्ठेत्" इति ॥
वङ्गानुत्खाय तरसा नेता नौसाधनोद्य[२]तान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः॥ ३६॥
वङ्गानिति ॥ नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान्वङ्गान्राज्ञस्तरसा बलेन ॥ “तरसी बलरंहसी" इति यादवः ॥ उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्थम्भान्निचखान। स्थापितवानित्यर्थः ।।
आपादपद्मप्र[३]णताः कलमा इव ते रघुम् ।
फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥ ३७॥
आपादेति ॥ आपादपद्ममङ्घ्रिपद्मपर्यन्तं प्रणताः । अत एवोत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः । कलमा इव शालिविशेषा इव ॥ "शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी" इत्यमरः ॥ तेऽप्यापादपद्म पादपद्ममूलपर्यन्तं प्रणत्ताः ॥ “पादो बुध्ने तुरीयांशशैलप्रत्यन्तपर्वताः" इति विश्वः ॥ उत्खातप्रतिरोपिताश्च ॥ रघुं फलैर्धनैः । अन्यत्र सस्यैः । संवर्धयामासुः ॥ “ फलं फले धने बीजे निष्पत्तौ भोगलाभयोः । सस्ये” इति केशवः ॥