पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८५

पुटमेतत् सुपुष्टितम्
( ८३ )
चतुर्थः सर्गः ।

 ताम्बूलीनामिति ॥ तत्र महेन्द्राद्रौ । युध्द्यन्त इति योधाः॥ पचाद्यच् ।।रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासर्व नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः । तत्र विजह्रुरित्यर्थः । शात्रवं यशश्च पपुः । जहुरित्यर्थः ॥

  गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
  श्रियं म[१]हेन्द्रनाथस्य जहार न तु मेदिनीम् ॥४३॥

 गृहीतेति ॥ धर्मविजयी धर्मार्थं विजयशीलः स नृपो रघुः । गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः । तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियं जहार । धर्मार्थमिति भावः । मेदिनीं तु न जहार । शरणागतवात्सल्यादिति भावः ॥

  ततो वेलातटेनैव फलवत्पूगमालिना ।
  [२]गस्त्याचरितामाशामनाशास्यजयो ययौ ॥४४॥

 तत इति ॥ ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता ॥ व्रीह्यादित्वादिनिप्रत्ययः॥ वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येना चरितामाशां दक्षिणां दिशमनाशास्यजयः । अयत्नसिद्धत्वादप्रार्थनीयजयः सन् । ययौ ॥ “अगस्त्यो दक्षिणामाशामाश्रिय नभसि स्थितः । वरुणस्यात्मजो योगी विन्ध्यवातापिमर्दनः" इति ब्रह्मपुराणे ॥

  स सैन्यपरिभोगेण गजदानसुगन्धिना ।
  कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४५ ॥

 स इति ॥ स रघुः । गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना ॥ "गन्धस्य-" इत्यादिनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः । तथापि निरङ्कुशाः कवयः । तथा माघकाव्ये-" ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः" (६।५०)। नैषधे च- " अपां हि तृप्ताय न वारिधारा सादुः सुगन्धिः स्वदते तुषारा" (३।९३) इति ॥ न कर्मधारयान्मत्वर्थीय इति निषेधादिनिप्रत्यय पक्षोऽपि जघन्य एव । सेनायां समवेताः सैन्याः॥ “ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इत्यमरः ॥ “ सेनाया वा” इति ण्यप्रत्ययः ॥ तेषां परिभोगेन

कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत् ॥ संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥


  1. माहेन्द्रनाथस्य.
  2. माहेन्द्रनाथस्य.