पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८६

पुटमेतत् सुपुष्टितम्
( ८४ )
रघुवंशे

  बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
  मा[१]रीचोद्धान्तहारीता मलयाद्रेरुपत्यकाः॥४६॥

 बलैरिति ॥ विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः ॥ “बलं शक्तिर्बलं सैन्यम्" इति यादवः ॥ मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता हारीताः पक्षिविशेषा यासु ताः ॥ "तेषां विशेषा हारीतो मद्रुः कारण्डवः प्लवः" इत्यमरः ॥ मलयाद्रेरुपत्यका आसन्नभूमयः ॥ “उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका" इत्यमरः॥“ उपाधिभ्यां त्यकन्-" इत्यादिना त्यकन्प्रत्ययः ॥ अध्युषिताः । उपत्यकासूषितमित्यर्थः ॥ “उपान्वध्याङ्वसः" इति कर्मत्वम् ॥

  ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
  तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः॥४७॥

 ससञ्जुरिति ॥ अश्वैः क्षुण्णानामेलानामेलालतानामुत्पतिष्णव उत्पतनशीलाः ॥ “ अलंकृञ्-"इत्यादिनेष्णुप्रत्ययः॥ फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु ॥ सर्वधनीतिवदिन्नन्तो बहुव्रीहिः ॥ मत्तेभानां कटेषु ससक्षुः सताः ॥ “गजगण्डे कटीकटौ” इति कोषः ॥

  भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
  नास्रसत्करिणां ग्रैवं त्रिपदीछेदिनामपि ॥४८॥

 भोगीति ॥ चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्नेषु समर्पितं सञ्जितं त्रिपदीछेदिनां पादशृङ्खलच्छेदकानामपि ॥ “त्रिपदी पादबन्धनम्" इति यादवः ।। करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठवधनम् ॥ “ग्रीवाभ्योऽण्च" इत्यण्प्रत्ययः ॥ नास्रसन्न स्रस्तमभूत् ॥ “शुद्ध्यो लुङि" इति परस्मैपदे पुषादित्वादङ् । “ अनिदिताम्-" इति नकारोपः ॥

  दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
  तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥४९॥


४६-४७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

आजानेयखुरक्षुण्णपक्कलाक्षेत्रसंभवम्
व्यानशे सपदि व्योम कीटकोशाविल रजः ।।



  1. मरीचोद्धान्तहारीताः; मरिचोद्धान्तहारीताः