पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८७

पुटमेतत् सुपुष्टितम्
( ८५ )
चतुर्थः सर्गः ।

 दिशीति ॥ दक्षिणस्यां दिशिं रवेरपि तेजो मन्दायते मन्दं भवति ॥ लोहितादित्वात्क्यष्पत्ययः ॥ “वा क्यषः" इत्यात्मनेपदम् ॥ दक्षिणायने तेजोमान्द्यादिति भावः । तस्यामेव दिशि पाण्ड्याः । पाण्डूनां जनपदानां राजानः पाण्ड्याः । पाण्डोर्ङ्यण्वक्तव्यः ॥ रघोः प्रतापं न विपेहिरे न सोढवन्तः ॥ सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्ककर्षो गम्यते ॥

  ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।
  ते निपत्य ददुस्तस्मै यशः स्वमिव संचितम् ॥ ५० ॥

 ताम्रपर्णीति ॥ ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य संगतस्य महोदधेः संबन्धि संचितं मुक्तासारं मौक्तिकवरम् ।। " सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु" इत्यमरः ॥ स्वं स्वकीयं संचितं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः ॥ यशसः शुभ्रत्वादौपम्यम् ॥ ताम्रपर्णीसंगमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।।

  स निर्विश्य यथाकामं तटेष्वा[१]लीनचन्दनौ ।
  स्तनाविव दिशस्तस्याःशैलौ मलय[२]दर्दुरौ॥ ५१ ॥
  असह्यविक्रमः सह्यं दू[३]रान्मुक्तमुदन्वता।
  नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ५२ ॥

 स इति । असह्येति च ॥ युग्ममेतत् ॥ असह्यविक्रमः स रघुस्तटेषु सानुप्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ ॥ “ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्" इत्यमरः ॥ स्तनपक्षे प्रान्तेषु व्याप्तचन्दनानुलेपौ । तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ उदकान्यस्य सन्तीत्युदन्वानुदधिः ॥ "उदन्वानुदधौ च" इति निपातः ॥ उदन्वन्ता दूरान्मुक्तं दूरतस्त्यक्तम् ।। “स्तोकान्तिकदूरार्थकृच्छाणि क्तेन" इति समासः ॥ पञ्चम्याः स्तोकादिभ्यः इत्यलुक् ॥ स्रस्तांशुक मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत्माप्तोअतिक्रान्तो वा ॥

 संप्रति प्रतीचीं दिशमभिययावित्याह-

  तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः।
  रा[४]मास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः॥ ५३ ॥

 तस्येति ॥ अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः ॥ अपरान्तास्तु


  1. आलीढ.
  2. दुर्दुरी; दुर्दरौ.
  3. दूरमुक्तम्.
  4. रामेषु.