पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८८

पुटमेतत् सुपुष्टितम्
( ८६ )
रघुवंशे

पाश्चात्त्यास्ते च सूर्यरिकादयः" इति यादवः ॥ विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः ॥ “ अनीकं तु रणे सैन्ये" इति विश्वः ॥ अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः॥

  भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्।
  अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः॥५४॥

 भयेति ॥ तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः ।। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ॥

  मु[१]रलामारुतोद्धूतमगमत्कैतकं रजः।
  तद्योधवारबाणानामयत्नपटवासताम् ॥ ५५॥

 मुरलेति ॥ मुरला नाम केरलदेशेषु काचिन्नदी । तस्या मारुतेनोद्धूतमुत्थापितम् ॥ “मुरवीमारुतोद्धूतम्" इति केचित्पठन्ति ॥ कैतकं केतकीसंबन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् ॥"कञ्चको वारबाणोऽस्त्री" इत्यमरः।। अयत्नपटवासतामयत्नसिद्धवस्त्रवासनाद्रव्यत्वमगमत् ॥ “पिष्टातः पटवासकः" इत्यमरः॥

  अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
  वर्मभिः पवनोद्धूतराजतालीवनध्वनिः॥ ५६ ॥

 अभ्यभूयतेति ॥ चरतां गच्छतां वाहानां वाजिनाम् ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः" इत्यमरः ॥ गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः॥ कर्तरि क्तः॥ "गात्रसञ्जितैः" इति वा पाठः । सञ्जतेर्ण्य॑न्तात्कर्मणि क्तः॥ वर्मभिः कवचैः॥ "मर्मरः" इति पाठे वाहानां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति ध्वनेर्विशेषणम् ॥ पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः॥

  खर्जूरीस्कन्धन[२]द्धानां मदोद्गारसुगन्धिषु ।
  कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ ५७ ॥

 खर्जुरीति॥ खर्जुरीणां तृणद्रुमविशेषाणाम् ॥ “खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः" इत्यमरः ॥ स्कन्धेषु प्रकाण्डेषु ॥ “ अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः" इत्यमरः ॥ नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु॥ “गन्धस्य" इत्यादिनेकारः॥ कटेषु गण्डेषु पुंनागेभ्यो नाग-



  1. मरुला.
  2. २बद्धानाम्,