केशरेभ्यः पुन्नागपुष्पाणि विहाय ॥ ल्यब्लोपे पञ्चमी॥ शिलीमुखा अलयः पेतुः।। "अलिबाणौ शिलीमुखौ” इत्यमरः ॥ ततोऽपि सौगन्ध्यातिशयादिति भावः ॥
अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करम् ॥५८॥
अवकाशमिति ॥ उदन्वानुदधी रामाय जामदग्न्याय। अभ्यर्थितो याचितः सन् । अवकाशं स्थानं ददौ किल । किलेति प्रसिद्धौ । रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ ॥ “बलिहस्तांशवः कराः" इत्यमरः ॥ अपरान्तानां समुद्रमध्यदेशवर्तित्वात्तैर्दत्ते करे समुद्रदत्तत्वोपचारः॥ करदानं च भीत्या । न तु याच्ञयेति रामाद्रघोरुत्कर्षः॥
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः॥ ५९॥
मत्तेति ॥ तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव ॥ भावे क्तः॥ व्यक्तानि स्फुटानि विक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णावलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार ॥गाढप्रकाशस्त्रिकूटोऽद्रिरेवोत्कीर्णवर्णस्तम्भ इव रघोर्जयस्तम्भोऽभूदित्यर्थः ॥
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी॥६०॥
पारसीकानिति ॥ ततः स रघुः । संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान्रिपूनिव । पारसीकान्राज्ञो जेतुं स्थलव र्र्तत्ममना प्रतस्थे । न तु निर्दिष्टेनापि जलपथेन । समुद्रयानस्य निषिद्धत्वादिति भावः ।।
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः॥६१॥
यवनीति ॥ स रघुर्यवनीनां यवनस्त्रीणाम् ॥ “जातेरस्त्रीविषयादयोपधात्" इति ङीष् ॥ मुखानि पद्मानीव मुखपद्मानि ॥ उपमितसमासः ॥ तेषां मधुना मद्येन यो मदो मदरागः ॥ कार्यकारणभावयोरभेदेन निर्देशः॥ तं न सेहे ॥ कमिव ।अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव । अब्जहितत्वादब्जसंबन्धित्वं सौरातपस्य ।।
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः।
शार्ङ्गकूजितविज्ञेयप्र[१]तियोधे रजस्यभूत् ॥ ६२ ॥
- ↑ प्रतियोधः