पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९

पुटमेतत् सुपुष्टितम्
( ७ )
प्रथमः सर्गः ।

 सर्वातिरिक्तेति॥सर्वातिरिक्तसारेण सर्वेभ्यो भूतेभ्योऽधिकबलेन ॥ “सारो बले स्थिरांशे च" इत्यमरः ॥ सर्वाणि भूतानि तेजसाभिभवतीति सर्वतेजोभिभावी तेन । सर्वेभ्य उन्नतेनात्मना शरीरेण ॥ "आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि" इति विश्वः॥ मेरुरिव । ऊर्वी क्रान्त्वाक्रम्य स्थितः । मेरावपि विशेषणानि तुल्यानि ॥ “अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा" इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥

  आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
  आगमैः सदृशारम्भ आ[१]रम्भसदृशोदयः ॥१५॥

 आकारेति ॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः । प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्रपरिश्रमः । आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म । तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः॥

  भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
  अधृष्यश्चा[२]भिगम्यश्च यादोरत्नैरिवार्णवः ॥१६॥

 भीमेति ॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजःप्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम् । यादोभिर्जलजीवैः ॥ “यादांसि जलजन्तवः" इत्यमरः ॥ रत्नैश्चार्णव इव । अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥

  रेखामात्रमपि क्षुण्णादा[३] मनोर्वर्त्मनः परम् ।
  न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः॥१७॥

 रेखामात्रमिति ॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिव्यापारो यासां ताः ॥ "चक्रधारा प्रधिर्नेमिः" इति यादवः॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ प्रजाः । आ मनोः । मनुमारभ्येत्यभिविधिः ॥ पदद्वयं चैतत् । समासस्य विभाषितत्वात् ॥ क्षुण्णादभ्यस्तात्प्रहताच्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम् । इतस्तत इत्यर्थः । रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम् । ईषदपीत्यर्थः ॥

"प्रमाणे द्वयसज्-" इत्यादिना मात्रच्प्रत्ययः ॥ परशब्दविशेषणं चैतत् । न व्यतीयुर्नातिक्रान्तवत्यः ॥ कुशलसारथिप्रेषिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥


  1. प्रारम्भ.
  2. अधिगम्यः.
  3. आत्मनः.