पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९०

पुटमेतत् सुपुष्टितम्
( ८८ )
रघुवंशे

 सङ्ग्राम इति ॥ तस्य रघोरश्वसाधनैर्वाजिसैन्यैः ॥ “साधनं सिद्धिसैन्ययोः" इति हैमः ॥ पश्चाद्भवैः पाश्चात्त्यैर्यवनैः सह ॥ “दक्षिणापश्चात्पुरसस्त्यक्" ॥ सहार्थे तृतीया॥शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि । तेषां कूजितैः शब्दैः ॥ “शार्ङ्ग पुनर्धनुषि शार्ङ्गिणः । जये च शृङ्गविहिते चापेऽप्याह विशेषतः" इति केशवः ॥अथवा शार्ङ्गैः शृङ्गसंबन्धिभिः कूजितर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटा यस्मिस्तस्मिन्रजसि तुमुलः सङ्ग्रामः संकुलं युद्धमभूत् ॥ “तुमुलं रणसंकुले' इत्यमरः।।

  भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
  तस्तार सरघाव्याप्तैःस क्षौ[१]द्रपटलैरिव ॥ ६३॥

 भल्लेति ॥ स रघुर्भल्लापर्जितैर्बाणविशेषकृतैः ॥ " स्नुहीदलफलो भल्लः इति यादवः ॥ श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः ॥ “सिध्मादिभ्यश्च इति लच्प्रत्ययः ॥ तेषां पाश्चात्त्यानां शिरोभिः । सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः ॥ “सरघा मधुमक्षिका” इत्यमरः ॥ क्षुद्राः सरघाः॥ 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका" इत्यमरः॥ क्षुद्राभिः कृतानि क्षौद्राणि मधूनि ॥ “मधु क्षौद्रं माक्षिकादि" इत्यमरः ॥ "क्षुद्राभ्रमरवटरपादपादञ्' इति संज्ञायामञ्प्रत्ययः॥ तेषां पटलैः संचयैरिव ॥ “पटलं तिलके नेत्ररोगे छन्दसि संचये । पटिके परिवारे च" इति हैमः ॥ महीं तस्ताराच्छादयामास ॥

  अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः।
  प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ६४ ॥

 अपनीतेति ।। शेषा हतावशिष्टा अपनीतशिरस्त्राणा अपसारितशीर्षण्याः सन्तः ॥ " शीर्पकम् । शीर्षण्यं च शिरस्त्रे” इत्यमरः ।। शरणागतलक्षणमेतत् । तं रघुं शरणं ययुः ॥ तथाहि । महात्मनां संरम्भः कोपः ॥ “संरम्भः संभ्रमे कोपे" इति विश्वः॥ प्रणिपातः प्रणतिरेव प्रतीकारो यस्य स हि ॥ महतां परकीयमौद्धत्य- मेवासह्यं न तु जीवितमिति भावः ॥

  विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
  आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६५॥

 विनयन्त इति ॥ तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्ठानि यासु तासु द्राक्षावलयानां भूमिषु ।। “मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च" इत्यमरः ।। मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः॥

"कर्तृस्थे चाशरीरे कर्मणि" इत्यात्मनेपदम् । " लट् स्मे" इति भूताथ लट् ।।


  1. क्षौद्रैः,पटलैः.