पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९३

पुटमेतत् सुपुष्टितम्
( ९१ )
चतुर्थः सर्गः ।

  भूर्जेषु मर्मरीभूताः कीचकदध्वनिहेतवः ।
  गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ ७३ ॥

 भूर्जेष्विति ॥ भूर्जेषु भूर्जपत्रेषु ॥ "भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता" इति यादवः ॥ मर्मरः शुष्कपर्णध्वनिः ॥ "मर्मरः शुष्कपर्णानाम्" इति यादवः । अयं च शुक्लादिशब्दवद्गुणिन्यपि वर्तते प्रयोज्यते च-- मर्मरैरगुरुधूपगन्धिभिः" इति ॥ अतो मर्मरीभूताः । मर्मरशब्दवन्तो भूता इत्यर्थः । कीचकानां वेणुविशेषाणां ध्वनिहेतवः । श्रोत्रसुखाश्चेति भावः । गङ्गाशीकरिणः । शीतला इत्यर्थः । मरुतो-वाता मार्गे तं सिषेविरे ॥

  विशश्रमुर्नमेरूणां छायास्वध्यास सैनिकाः ।
  दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ ७४ ॥

 विशश्रमुरिति ॥ सैनिकाः । सेनायां समवेताः ॥ प्राग्वहतीयष्ठक्प्रत्ययः ॥नमेरूणां सुरपुंनागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय ॥ अधिशीङ्स्थासां कर्म" इति कर्म ॥ दृषत्स्वधिरुह्येत्यर्थः ॥ विशश्रमुर्विश्रान्ताः ॥

  सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः |
  आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ ७५ ॥

 सरलेति ॥ सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम् । ग्रीवासु भवानि ग्रैवेयाणि । कण्ठशृङ्खलानि ॥ "ग्रीवाभ्योऽण्च" इति चकाराड्ढञ्प्रत्ययः ॥ तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लताविशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन् ॥

  तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः ।
  [१]जवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ ७६ ॥

 तस्येति ॥ तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रैवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वर्ष्म प्रमाणम् ॥ वर्ष्म देहप्रमाणयोः" इत्यमरः ॥ शशंसुः कथितवन्तः ॥ देवदारुस्कन्धत्वक्क्षतैर्गजानामौन्नत्यमनुमीयत इत्यर्थः ॥


  1. गजवर्म.