पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९४

पुटमेतत् सुपुष्टितम्
( ९२ )
रघुवंशे

  तत्र ज[१]न्यं रघोर्घोरं प[२]र्वतीयैर्गणैरभूत् ।
  ना[३]राचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ७७॥

 तत्रेति ॥ तत्र हिमाद्रौ रघोः। पर्वते भवैः पर्वतीयैः ॥ “ पर्वताच्च " इति छप्रत्ययः ॥ गणैरुत्सवसंकेताख्यैः सप्तभिः सह । “गणानुत्सवसंकेतानजयत्सप्त पाण्डवः" इति महाभारते ॥ नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दिपालानामश्मनां च निष्पेषेण संघर्षणोत्पतिता अनला यस्मिंस्तत्तथोक्तम् ॥ “क्षेपणीयो भिन्दिपालः खड्गो दीर्घो महाफलः" इति यादवः ॥ घोरं भीमं जन्यं युद्धमभूत् ॥ "युद्धमायोधनं जन्यम्" इत्यमरः ॥

  शरैरु[४]त्सवसंकेतान्स कृत्वा विरतोत्सवान् ।
  जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥ ७८॥

 शरैरिति ॥ स रघुः शरैर्बाणैरुत्सवसंकेतान्नाम गणान्विरतोत्सवान्कृत्वा। जित्वेत्यर्थः। किंनरान्बाहोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास ॥ “ गतिबुद्धि-" इत्यादिना किंनराणां कर्मत्वम् ।।

  [५]रस्परेण विज्ञातस्तेषूपायनपाणिषु ।
  राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा॥७९॥

 परस्परेति॥ तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः। हिमाद्रिणापि राज्ञः सारो बलरूपो विज्ञातः॥ एतेन तत्रत्यवस्तूनामनर्घ्यत्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ॥

  तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः।
  पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ८०॥

 तत्रेति ॥ स रघुस्तत्र हिमाद्रावक्षोभ्यमधृष्यं यशोराशिं निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव । अवरुरोहावततार ॥ कैलासमगत्वैव प्रतिनिवृत्त इत्यर्थः । न हि शूराः परेण पराजितमभियुज्यन्त इति भावः ॥

  चकम्पे तीर्ण[६]लौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
  तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ।। ८१॥

{{rule}

  1. युद्धम्.
  2. पार्वतीयः.
  3. विमर्दः सह तैस्तत्र निष्पषोत्पमितानल:.
  4. उच्छिन्न; उत्सन्न.
  5. परस्परस्य.
  6. लोहित्ये