पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९५

पुटमेतत् सुपुष्टितम्
( ९३ )
चतुर्थः सर्गः ।

 चकम्प इति ॥ तस्मिन्ररघौ । तीर्णा लौहित्या नाम नदी येन तस्मिस्तीर्णलौहित्ये सति । प्राग्ज्योतिषाणां जनपदानामीश्वरस्तस्य रघोर्गजानामालानतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षै: सह चकम्पे कम्पितवान् ॥

  न प्रसेहे स रुद्धार्क[१]मधारावर्षदुर्दिनम् ।
   रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ८२ ॥

 नेति ॥ स प्राग्ज्योतिषेश्वरो रुद्धार्कमावृतमूर्यम् । अधारावर्ष च तदुर्दिनं च धारावृष्टिं विना दुर्दिनीभूतम् । अस्य रघो रथवर्त्ंमरजोऽपि न प्रसेहे । पताकिनीं सेनां तु कुत एव प्रसेहे । न कुतोऽपीत्यर्थः॥

  तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।
  भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः॥ ८३ ॥

 तमिति ॥ कामरूपाणां नाम देशानामीशोऽत्याखण्डलविक्रममतीन्द्रपराक्रमं तं रघुम् । भिन्नाः स्रवन्मदाः कटा गण्डा येषां तैर्नागैर्गजैः । साधनैः। भेजे । नागान्दत्त्वा शरणं गत इत्यर्थः । कीदृशैर्नागैः । यैरन्यारघुव्यतिरिक्तान्नृपानुपरु रोध । शूराणामपि शूरो रघुरिति भावः ॥

  कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
  रत्नपुष्पोपहारेण छायामानर्च पादयोः॥ ८४ ॥

 कामरूपेश्वर इति ॥ कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कनकमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणे नानार्चार्चयामास ॥

  इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
  रजो विश्रा[२]मयन्राज्ञां छत्रशून्येषु मौलिषु॥ ८५॥

 इतीति ॥ जिष्णुर्जयशीलः ॥ "ग्लाजिस्थश्च ग्स्नुः" इति ग्स्नुप्रत्ययः ॥ स रघुरितीत्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु । रघोरेकच्छत्रकत्वादिति भावः । राज्ञां मौलिषु किरीटेषु ॥ “मौलिः किरीटे धम्मिले चूडाकंकेलिमूर्धजे' इति हैमः ॥ विश्रामयन् । संक्रामयन्नित्यर्थः। न्यवर्तत निवृत्तः ॥

  स विश्वजितमा[३]जह्रे यज्ञं सर्वखदक्षिणम् ।
  आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ८६ ॥


  1. अधारावर्षि दुर्दिनम्,
  2. विश्रमयन्.
  3. आरेभे.