पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९६

पुटमेतत् सुपुष्टितम्
( ९४ )
रघुवंशे

 स इति ॥ स रघुः सर्वस्वं दक्षिणा यस्य तं सर्वस्वदक्षिणम् ॥ “विश्वजित्सर्वस्वदक्षिणः" इति श्रुतेः॥ विश्वजितं नाम यज्ञमाजह्रे । कृतवानित्यर्थः ॥ युक्तं चैतदित्याह- सतां साधूनाम् । वारिमुचां मेघानामिव । आदानमर्जनं विसर्गाय त्यागाय हि । पात्रविनियोगायेत्यर्थः॥

  सत्रान्ते सचिवसखः पुरस्क्रियाभि-
   र्गुर्वीभिः शमितपराजयव्यलीकान् ।
  काकुत्स्थश्चिरविरहोत्सुकावरोधा-
   न्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८७॥

 सत्रान्त इति ॥ काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते ।। सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च" इत्यमरः ॥ सचिवानाममात्यानां सखेति सचिवसखः सन् । “सचिवो भृतकेऽमात्ये" इति हैमः ॥ तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः ॥ “राजाहःसखिभ्यष्टच्"। गुर्वीभिर्महतीभिः ॥"गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके" इति हैमः ॥ पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान् ॥ “दुःखे वैलक्ष्ये व्यलीकम्” इति यादवः ॥ चिरविरहेणोत्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान् । राज्ञोऽपत्यानि राजन्याः क्षत्रियाः । तान् ॥ “राजश्वशुराद्यत्" इत्यपत्यार्थे यत्प्रत्ययः॥ 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः ॥ स्वपुरं प्रति निवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् ॥ प्रहर्षणीवृत्तमेतत् । तदुक्तम्- “म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षणीयम्" इति ।

  ते रेखाध्वजकुलिशातपत्रचिह्नं
   सम्राजश्चरणयुगं प्रसादलभ्यम् ।
  प्रस्थानप्रणतिभिरङ्गुलीषु चकु‌‌- ‌
   र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ।। ८८ ॥

 त इति ॥ते राजानः। रेखा एव ध्वजाश्च कुलिशानि चातपत्राणि च । ध्वजाद्याकाररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम् । प्रसादेनैव लभ्यं प्रसादलभ्यम् । सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नम-


८८ श्लोकस्यानन्तरं क्षेपकोऽयं दृश्यते--

यज्ञान्ते तमवभृथाभिषेकयुक्तं सत्कारैः शमितपराजयव्यलोकाः ।
आमन्त्र्योत्सुकवनितावरुद्धचित्ताः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः ।।