पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।


पण्डितराजश्रीजगन्नाथविरचितो

रसगङ्गाधरः ।

नागेशभट्टकृतया गुरुमर्मप्रकाशाख्यव्याख्यया समेतः ।


प्रथममाननम् ।

स्मृतापि तरुणातपं करुणया हरन्ती नृणा-
मभङ्गरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्विनी भवतु कापि कादम्बिनी ॥


नत्वा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम् ।
रसगङ्गाकमणेरतिगूढार्थसंविदे ।
याचकानां कल्पतरोररिकक्षहुताशनात् ।
नागेशः क्षृङ्गवेरेशरामतो लब्धजीविकः ॥

 प्रारिप्सितप्रतिबन्धकदुरितशमनाय क्षृङ्गारालम्बनादिविभावतया तद्देवतात्वेन च समुचितस्वेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचरञ्शिष्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च निबध्नाति--स्मृतापीति । कादम्बिनी मेघपङ्कित्वेनाध्यवसितां कृष्णमूर्तिः । विलक्षणश्यामत्वासकलमेघकार्यकरत्वाच्च । अत एव मेघत्वेनाध्यासः । कापीत्यनेनात्र तद्धर्मसत्वेऽपि ततोऽधिककार्यकारित्वेन प्रसिद्धकादम्बिनीतो व्यतिरेकस्तत्र बोध्यते । मतिचुम्बिनी मतिविषयः। भवत्विति प्रार्थने लोट् । व्यतिरेकपोषकं विशेषणत्रयम् । प्रसिद्ध सा तु दृष्टा वर्षणद्वारा स्पृष्टा वा स्वाभाव्याद्वटषस्थभान्वातपान्यतापं केषांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हृतवती । इयं तु स्तृतापि । दृष्टादिसमुच्चायकोऽपिः । तरुणातपम् । तमपि करुणया न तु यथाकथंचित । तृणां सर्वेषां न तु केषांचित् । हरन्ती न तु जहार हरिष्यति वा । किं च सा भङ्गशीलतनुकान्तिविघुता वेष्टिता । इयं तु चिरकालस्थायिशरीरकान्तीनां विघुतां तत्त्वेनाध्यावसितानां गोपाङ्गनानां शतैर्न त्वेकद्वित्र्यादिभिर्वलयिता वेष्टिता। यद्वा ’धान्येन धनवान्’ इतिवत्तृतीया। तदभिन्नसंजातवलया । कलिन्दाख्यमहीधरोत्पन्नयमुनातीरे सुरद्रुमा नीपाः । तेषां तत्त्वं तु हरिप्रिय