पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः । धर्म- लुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्व- मात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका । धर्मलुप्ता आर्थी वाक्यगता यथा- 'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते । उत्तमानां विकारेऽपि नापैति रमणीयता ॥' धर्मलुप्तां समासगा श्रौत्यार्थी तद्धितगार्थी च यथा- 'सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः । पयोधिकल्पा मतिरासफेन्दोमहीतलेऽन्यस्य नहीति मन्ये ॥ ईषदसमाप्तिरपि भङ्गचन्तरेण सादृश्यमेव । वाचकलुप्ता समासगा-'दरदलदरविन्दसुन्दर' इति प्रागुदाहृते पद्ये । कर्माधारक्यज्गता क्यङ्गता च यथा- 'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः। विरहेण विकलहृदया निर्जलमीनायते महिला ॥' अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन 'अधिकरणाच्च' इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच्च 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । आचारमात्रार्थकतया क्यच्क्यडोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्र- तिपत्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादिसमु- दायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्य- सादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता । ताशेति । प्राकृषेण्येत्यर्थः । अवच्छेदिकेत्यस्येतीति शेषः । सादृश्यमेवेति । तथा च तद्विशिष्टार्थप्रतिपादकत्वादार्थी । कर्माधारेति. । वाचकलुप्तेत्यादिः । नन्वेवमाचार- वत्सादृश्यस्यापि क्यजादिना बोधनात्कथं वाचकलुप्तात्वमत आह-आचारोति । साह- श्यवाचकाभावादिति । शक्त्येति भावः । ननु नेदं युक्तम् । अत्र मते इवादीनां द्योतक- तानये सर्वत्रैव वाचकाभावाद्वाचकलुप्तात्वापत्तेः । चन्द्रप्रतिपक्षमाननमित्यत्रापि वाचक. लुप्तात्वापत्तेश्च । तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव । तस्मात्सादृश्यसादृश्यविशि- ष्टान्यतरमात्रबोधकाभाव एव वाचकलोप इति तत्त्वम् । अत आह-अनलीयतीत्या. १. नवाब आसफखान इति नाम्ना प्रसिद्धस्य,