पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
रसगङ्गाधरः।

तिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वम्, चमत्कारजनकतावच्छेदकं तत्त्वम् । स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम् । यत्तु प्राञ्चः ‘अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्' इत्याहुस्तत्र विचार्यते--शब्दार्थयुगलं न काव्यशब्दवाच्यम् । मानाभावात् । काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च । व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदा- र्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किमपि प्रमाणं स्यात् । तदेव तु न पश्यामः । विमतवाक्यं त्वश्रद्धेयमेव । इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्ताद्व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्टे । एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम् । तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पि-


चमत्कारजनकज्ञाने समूहालम्बनविधया भासमानान्यार्थप्रतिपादकशब्दे काव्यत्ववारणाय ज्ञानेत्यपहाय भावनेत्युक्तम् । शब्दत्वमित्यस्य काव्यत्वमित्यत्रान्वयः । धारावाहिकसकलज्ञानविषयतादृशार्थप्रतिपादके वाक्येऽतिव्याप्तेराह यत्प्रतिपादितेति । यादृशानुपूर्वीप्रतिपादितार्थविषयकत्वविशिष्टभावनात्वं तज्जनकतावच्छेदकं तादृशानुपूर्वीमत्वमित्यर्थः । तेन नोक्तदोषः। लाघवादाह-स्वेति । स्वं चमत्कारत्वम् । जनकतावच्छेदकार्थेति । अर्थे भावनानिष्ठजनकतावच्छेदकता विषयतासंबन्धेन बोध्या । लक्ष्यतावच्छेदकं चैतत्समानाधिकरणं काव्येत्याद्यनुगतव्यवहारेणास्वादजनकतया च सिद्धजातिविशेषरूपमुपाधिरूपं वा काव्यत्वं बोध्यम् । प्राञ्चः प्रकाशकृदादयः । नन्वास्वादव्यञ्जकत्वस्योभयत्राविशेष एव मानमत आह-काव्यमिति । प्रत्युत वैपरीत्येन । आदिना काव्यं पठितमित्यादिसंग्रहः । इत्यादि । इत्यादि सार्वजनीनव्यवहारात् । सार्वविभक्तिकस्तसिः । विशेषपदेन प्रागुक्तार्थकत्वसूचनम् । एवमेग्रेऽपि । एवेनार्थनिरासः । प्रतिपत्तेश्च निर्णयाच्चेत्यन्वयार्थौ । परेति । प्रकाशकृदादीत्यर्थः । प्रत्यायकं निश्चायकम् । विमतेति । प्रकाशकृदित्यर्थः । उपसंहरति-इत्थं चेति । तस्याश्रद्धेयत्वे चेत्यर्थः । शब्दस्येत्यस्योभयत्र शक्तावन्वयः । एतेन व्यवहाररूपविनिगमकसत्वेन । प्रकरणार्थमुपसंहरति-तदेवमिति । एवमुक्तप्रकारेण । तस्यैव शब्दविशेषरूपस्यैव । प्रासङ्गिक-