पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
काव्यमाला ।

यथा वा--
तल्पगतापि च सुतनुः श्वासासङ्गं न या सेहे ।
संप्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ॥

इदं च पद्यं मन्निर्मित​प्रबन्धगतत्वेन पूर्वसाकाङ्क्षमिति दिङ्मात्रेण व्याख्यायते--या नववधूः पल्यङ्क​शयिता श्वासस्थासङ्गमात्रेणापि संकुचदङ्गलतिकाभूत्साः संप्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्यादाक्षिपति । परं तु मन्दम् । अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते । उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्यङ्ग्य​त्वम् । अमुमेव च प्रभेदं ध्वनिमामनन्ति । यत्तु चित्रमीमांसायामप्पय्यदीक्षितैः ‘निःशेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-‘उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तट उपरिभाग एव दृश्यते । इयमाश्लेषकृतैव । तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनायाधर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव, इत्यादिना, इदमपि ध्वनेरुदाहरणम्, इत्यन्तेन संदर्भेण तटादिघटिता वाक्यार्थाः


तवानसीत्यर्थेति । अस्याप्यमर्षे प्रति गुणतैव । तत्कार्यत्वात् । संवलितो विशिष्टः । चर्वणेति । पार्यन्तिकास्वादाश्रयत्वादित्यर्थः । तत्रामर्षे । अयमेव पूर्वोदाहरणाद्विशेषः । तल्पं शय्या । असहे हेतुगर्भे विशेषणं सुतनुरिति । स्वहृदयस्थितं शनैः स्वस्थानं प्रापयतीत्यर्थः । प्रबन्धो भामिनीविलासाख्यः । नवोढाप्रकरणादाह---नवेति । आङ् ईषदर्थे । संप्रतीत्यस्यार्थमाह–प्रस्थानेति । प्रकरणादाह-प्रवदितिसशङ्कनेति । सुतनुत्वान्नाशशङ्केति भावः । मन्दमिति । भाविविरहशङ्कयेति भावः । संलक्ष्येति । व्यङ्ग्य​व्यञ्जकयोः क्रमः संलक्ष्यो यत्र तयेत्यर्थः । अयमेव पूर्वतो विशेषः । ननु स्थाय्यादीनामसंलक्ष्यक्रमव्यङ्ग्यत्वमेव प्राचीनैरुक्तमत आह-उपेति । अमुमुत्तमोत्तमम् । व्याख्यानमे-