पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
रसगङ्गाधरः ।

स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्य​ङ्ग्य​व्यञ्जने साहायकमाचरन्ति' इति, तदेतद​लंकारशास्त्रतत्त्वानवबोधनिबन्धनम् । प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च । तथा हि पञ्चमोल्लासशेषे 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरताेऽपि भवन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति काव्यप्रकाशकृतोक्तम् । तथा तत्रैव तेन ।

‘भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण ।
गोलाणईकच्छकुडङ्गवासिणी दरिअसीहेण ॥

इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्व्य​ञ्जनमभ्युपगतम् । इत्थमेव च ध्वनिकृतापि प्रथमोद्योते । एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः । किं च यदिदं निःशेषेत्याद्यवा- न्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं संपाद्यते


वाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन । इत्यादीत्यादिना प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति । अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्जनेन संभोगचिह्नोद्धाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्वतोऽञ्जनलोप: स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानञ्जनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्था विशेषणवाक्यार्थाः । प्रधानव्यङ्ग्यं संभोगः । तत्र ग्रन्थविरोधमोह-पञ्चमोल्लासेति । अस्योक्तमित्यत्रान्वयः । गमकेति । संभोगेत्यादिः । अत्रैव नि:शेषेत्यादावेव । प्रतिबद्धानि, जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि साधारणानि । तत्रैव पञ्चमोल्लास एव । तेन प्रकाशकृता । अभ्युपगतमित्यत्रान्वयः । भ्र​मेति । ‘भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' कुसुमावचयाथै कुञ्जे धार्मिकपरिभ्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम् । अत्र वाच्येन भीरुस्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्जे सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । इत्थमेवेति । उक्तं स्वीकृतं चेत्यर्थः । ननु तैः साधारण्ये व्यञ्जने स्वीकृतेऽसाधारण्ये सुतरामङ्गीकृतम्, प्रकृते च तथा संभवान्मयोपपादितमिति कस्तैर्विरोध इति चेत्सत्यम्, अत एवोपपत्तिविरोधोऽपरो दो-