पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः

तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः ।
अङ्गीचक्रे नरपतेर्नति दण्डं च लोठनः ॥ १८४६ ॥
एतावत्सिद्धमफलारब्धीनामत्र दुःसहे ।
काले व्यावृत्तिरस्माकमुचितास्मिन्न लाघवः ॥ १८४७ ॥
शारदारम्भसुभगे कमात्काले बलोर्जिताः ।
अथारब्धि विधास्यामः सर्वारम्भेण शोभनाम् ॥ १८४८ ॥
प्रत्यन्वहं लक्ष्मण प्रहितं नादधे नृपः ।
अन्ये च मत्रिणो मत्रं शाठ्यादभ्यर्णवर्तिनः ॥ १८४९ ॥
तिलकम् ॥
सर्वाधिकार्युदयनः प्रतिश्रुत्य धनं बहु ।
साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ १८५० ॥
अपाङ्केयः स संबन्धबद्धोपि धनलुब्धधीः ।
द्रुह्यति स्म महाव्यापन्निमझाय महीभुजे ॥ १८५१ ।।
बहुर्थदो लोठनश्चेत्कि मे संबन्ध्यपेक्षया ।
अन्यथा भवतामस्मीत्यन्यान्वक्ष्यामि कैतवात् ।। १८५२ ।।
दम्भमित्यभिसंधाय सोमपालोभ्युपाययौ ।
समर्थने हेतुरासीत्सुजेर्व्याजे कियानपि ॥ १८५३ ।।
युग्मम् ॥
स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा ।
सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ १८५४ ॥
दूतः प्रार्थयमानस्यार्थान्प्राक्प्रतिश्रुतान् ।
ऋणिकस्योत्तमर्णेभ्यः प्रदातुमनुवघ्नतः ॥ १८५५ ॥
तदा भिक्षाचरं जानन्हतकल्पमनेन नः ।
व्यसनप्रशमे कोर्थ इत्यवशां प्रकाशयन् ॥ १८५६ ॥

१ इत्यन्वहं इति स्यात् ।