राजतरङ्गिणी ।
प्रथमस्तरङ्ग: |
भूषाभोगिफणारत्नरोचिःसिचयचारवे ।
नमः प्रलीनमुक्ताय हरकट्पमहीरुदे ॥ १॥
भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्संभृत-
क्रीडत्कुण्डलिजृम्भितं जकधिजच्छायाच्छकण्ठच्छविः ।
वक्षो विभ्रदहीनकञ्चुकाचितं वद्धाङ्गनार्धास्य वो
भागः पुंगवलक्ष्मणोस्तु यशसे वामोथवा दक्षिणः ॥ २॥
वन्द्यः कोपि सुधास्यन्दास्कन्दी स सकवेर्गुणः ।
येनायाति यशःकायः स्थैर्ये स्वस्य परस्य च ॥ २॥
कोन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः।
कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ ४ ॥
न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि ।
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ ५ ॥
कथादैर्ध्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते ।
तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ ६ ॥
श्लाघ्यः स एव गुणवान्ऱागद्वेषबहिष्कृता ।
भूतार्थकथने यस्य स्थेयस्येव सरस्वती ॥ ७॥