पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
तृतीयस्तरङ्ग:


तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके ।
अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित्॥ ४८५ ॥
भविता तव जामाता जगतीभोगभाजनम्‌ 1
त्वदन्तमेव साम्रज्यं गोनन्दान्वयजन्मनाम्‌ ॥ ४८६ ॥
सुतासंतानसाम्राज्यमनिच्छन्नथ पार्थिवः।
दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ ४८७ ॥
अराजान्वयिने दत्ता नेयं साम्रज्यहारिणी ।
मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ ४८८ ॥
हेतुं सरूपतामात्रं कृत्वा जामातरं नृपः।
अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ ४८९ ॥
मातुः कार्कोटनागेन सुस्नातायाः समीयुषा ।
राज्यायैव हि संजातो राज्ञा नाज्ञायि तेन सः ॥ ४९० ॥
निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् ।
जिगीषयेव तत्रैव निदधाति विधिः शुभम्‌ ॥ ४९९ ॥
मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
ज्ञात्वा स्वां निद्‌धत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः।
दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
स्युर्दीपा अपि यद्वशेन जगतस्तिम्मांशुविस्मारकाः ॥ ४९२ ॥
धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम्‌
अभूत्सर्वस्य चश्चुष्यः स तु दुर्लभवर्धनः ॥ ४९३ ॥
प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम्‌ ।
कौबेरभाग्यसाम्यं च शनकैः श्वशुरोनयत् ॥ ४९.४ ॥
पित्रोः प्रेयस्तयोद्दृत्ता तारुण्यादिमदेन च ।
राजपुत्री यथावत्तु गणयामास नैव तम्‌ ॥ ७०५ ॥