पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

तस्याभिजनमालिन्यं स्वच्छेरच्छेदि तद्गुणैः ।
शाणाश्मकषणैः कार्ण्यमाकरोत्थं मणेरिव ॥ ४० ॥
धूमाद्गाढमलीमसाच्छुचिपयः सूते घनस्योद्गमो
लोहस्यातिशितस्य जातिरचलात्कुण्ठाश्ममालामयात् ।
किं चात्यन्तजडाजलाइयुतिमतो ज्वालाध्वजस्योद्भवो
जन्मावन्यनुकारिणो न महतां सत्यं स्वभावाः क्वचित् ॥४१॥
तारापीडोपि तनयः क्रमात्तस्यामजायत ।
अविमुक्तापीडनामा मुक्तापीडोपि भूपतेः ॥ ४२ ॥
वज्रादित्योदयादित्यललितादित्यसंज्ञकाः ।
९९
प्रतापादित्यजाः ख्याताश्चन्द्रापीडादयोपि ते ॥ ४३ ॥
वर्षान्पञ्चाशतं भुक्त्वा भुवं दुर्लभभूपतिः ।
पुण्यनिःश्रेणिभिः पुण्यामारुरोह दिवं शनैः ॥ ४४ ॥
राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोभवत् ।
पीडितेन्दुत्विषा कीर्त्या कलेः पीडां चकार यः ॥ ४५ ॥
एकपादाकृतिर्धर्मः समस्येवोज्झितो नृपैः ।
शुद्धश्लोककृता येन पादैः संयोजितस्त्रिभिः ॥ ४६ ॥
यं क्षमाविक्रममुखाः परस्परविरोधिनः ।
सिषेविरे गुणास्तुल्यं दिव्योद्यानमिवर्तवः ॥ ४७ ॥
स्थाने स्थाने यदीया श्रीस्तुल्यमाप्याययन्त्यभूत् ।
द्रुमानुद्यानकुल्येव निखिलाननुजीविनः ॥ ४८ ॥
दोषांस्त्यक्त्वान्यभूपेषु यं शुद्धा श्रीरशिश्रियत् ।
मार्गादिष्वोघकालुष्यं शिवा सिन्धुरिवार्णवम् ॥ ४९ ॥
कार्यज्ञो यो न तच्चक्रे यत्फलेभूद्विविनधीः ।
परं समाचरन्स्तुत्यं स्तूयमानस्त्रपां दधे ॥ ५० ॥