ततः परं परीहासशीलो भूलोकवासवः ।
विहसद्वासवावासं परीदासपुरं व्यधात् ॥ १९४ ॥
विरेजे राजतो देवः श्रीपरीहासकेशवः।
लीप्तो रत्नाकरस्वापे मुक्ताज्योतिर्भरैरिव ॥ १९५ ॥
नाभीनलिनकिञ्जल्कपुञ्चेनेवाचुरञ्ञितः ।
अचकात्काश्चनमयः श्रीमुक्ताकेशवो हरिः ॥ १९६ ॥
महावराहः शुशुभे काञ्चनं कवचं दधत् ।
पाताले तिमिरं हन्तुं वहन्निव रविप्रभाः ॥ १९७ ॥
गोवर्धनधरा देवो राजतस्तेन कारितः।
यो गोकुलपयःपूरैरिव पाण्डुरतां दधे ॥ १९८ ॥
चतुष्पञ्चाशतं हस्तान्रोपयित्वा महाशीलाम् ।
ध्वजाग्रे दितिजारातेस्तार्क्ष्यस्तेन निवेशीतः ॥ १९९ ॥
चक्रे बृहञ्चतुःशालाब्रुहञ्चैत्यब्रुज्जिनैः ।
राजा राजविहारं स विरजा; सततोर्जितम् ॥ २०० ॥
तोलकानां सहस्राणि चर्तुर्भिरधिकानि सः ।
अशीतिं निदधे हेम्नो मुक्ताकेशवविग्रहे ॥ २०१॥
तावन्त्येव सहस्राणि पालानां रजतस्य च ।
संधाय शुद्धधीश्चक्रे श्रीपरीहासकेशवम् ॥ २०२ ॥
र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्रीतिप्रस्थसहस्रैस्तु तेन तावभ्दिरेव सः।
व्योमव्यापिवपुः श्रीमान्ब्रुभ्दुध्दो व्यधीयत ॥ २०२ ॥
चतुःशालं च चैत्यं च तावता तावता व्यधात् ।
धनेनैवेति तस्यासन्पश्च निर्मतयः समाः ॥ २०४ ॥
राजतान्क्कापि सौवर्णान्क्कापि देवान्विनिर्ममे।
पाश्वेषु मुख्येदवानां पार्थिवो धनदोपमः ॥ २०५ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२१
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
रजतरङिगणी