पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
राजतरङ्गिणी


हेलयपि विनिर्यान्ती वक्राव्दसुमतीपतेः ।

न कदाचन तस्याज्ञा देवैरप्युदलङ्घ्यत ॥ २१९८ ॥
तथाहि पूर्वपाथोधेस्तटे सकटको वसन्‌ ।
आनीयन्तां कपित्थानीत्यादिदेश स जातुचित्‌ ॥ २१९ ॥
किकर्तव्यतयान्धेषु पुरोगेषु स्थितेष्वथ ।
उपानयत्कपित्थानि दिव्यः कोपि पुमान्पुरः ॥ २२० ॥
अग्रादुपायनं गृह्णन्कृतसंज्ञो भ्रुवा प्रभोः।
कस्य त्वमिति पप्रच्छ प्रतीहारः प्रस्रुत्य तम्‌ ॥ २२१ ॥
सोभ्यधात्तं कपित्थानि दत्त्वा राज्ञः प्रियाण्यहम्‌ ।
प्रहितोद्य महेन्द्रेण नन्दनोद्यानपालकः ॥ २२२ ॥
रहो महेन्द्रसंदिष्टं वक्तव्यं किंचिदस्ति मे।
इति श्रुत्वा प्रतीहारः सभां चक्रे स निर्जनाम्‌ ॥ २२३ ॥
ततो दिव्यः पुमानूचे शाक्रस्त्वां वक्ति भूपते ।
क्षन्तव्यं पथ्यमप्येतत्सौजन्यान्निष्ठुरं वचः ॥ २२४ ॥
तुर्यै युगेपि भूपाल दिक्पाला अपि ते वयम्‌ ।
विभ्रुमो यत्प्रणम्याज्ञां श्रुयतां तत्र कारणम्‌ ॥ २२५ ॥
पुरा ग्रमगहस्थस्य कस्यचित्पृथुसंपदः ।
जन्मान्तरे कर्मकरो हालिकोभूभ्दवन्किल ॥ २२६ ॥
एकदा तस्य ते ग्रीष्मे वाहयित्वा महाव्रुषान्‌ |
श्रान्तस्य निर्जलेरण्ये क्षीणप्रायमभूदहः ॥ २२७ ॥
ततः स्वामिग्रहात्क्षुत्रुतट्खिन्नस्य भवतोन्तिकम्‌ ।
वारिकुम्भीमपूपं च ग्रुहीत्वा कश्चिदाययौ ॥ २२८ ॥
निर्धौतपाणिपादस्त्वं मोक्तुं संप्रस्तुतस्ततः।
विप्रं कण्ठगतप्राणमपश्यः पुरतोतिथिम्‌ ॥ २२९. ॥