चतुर्थस्तरङ्गः ।
गच्छ भद्र वनायैव तपस्याधीयतां मनः ।
सापायाः क्षणभङ्गिन्य एवंप्राया विभूतयः ॥ ३८८ ॥
तेन संत्यजता राज्यं लिखितेन निजासने ।
वैराग्यवासनोत्सेकः श्लोकेनानेन सूचितः ॥ ३८२ ॥
अभग्नशम संवेगलब्धसिद्धिर्नराधिपः ।
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥ ३९० ॥
तथा याते प्रभोः पुत्रे मित्रशर्मा शुचान्वितः ।
वितस्तासिन्धुभेदे सभार्यो जीवितं जहौ ॥ ३९१ ॥
राज्यं समां समासार्धं कृत्वा स वसुधाधिपः ।
निःश्रेयसाप्तिनिःश्रेणी सुधीः सिद्धिं समासदत् ॥ ३९२ ॥
वज्रादित्यो वप्पियको ललितापीड इत्यपि ।
ख्यातोथ भूभृदभवद्यन्माता चक्रमर्दिका ॥ ३९३ ॥
स क्रूरचरितो भ्रातुः प्रजाह्लादविधायिनः ।
सुधांशोरिव दुर्वासा नूनं विसदृशोभवत् ॥ ३९४ ॥
परिहासपुरात्पित्र्यां नानोपकरणावलीम् ।
स जहार दुराचारो भूभृल्लोभवशंवदः ॥ ३९५ ॥
रागिणो भूमिपालस्य भूयस्योन्तःपुरस्त्रियः ।
बीजाश्वस्येव वडवास्तास्ताः समभवन्प्रियाः ॥ ३९६ ॥
विक्रयेण प्रयच्छन्स म्लेच्छेभ्यः पुरुषान्चहून् ।
म्लेच्छोचितां व्यवहृतिं प्रावर्तयत मण्डले ॥ ३९७ ॥
सप्ताब्दान्वसुधां भुक्त्वा सोतिसंभोगजन्मना ।
जगाम संक्षयं क्ष्माभृत्क्षयरोगेण किल्बिषी ॥ ३९८ ॥
तस्मान्मञ्जरिकादेव्या जातो राजा प्रजान्तकः ।
ततः पृथिव्यापीडोभूत्समासाश्चतुरः समाः ॥ ३९९ ॥
१७ १२९