पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
चतुर्थस्तरङ्गः।


ततः काञ्चनपर्यङ्कशायी मैरेयमत्तया ।
तयार्थितोपि शिथिलं विदधे नाधरांशुकम् ॥ ४३५ ॥
प्रवेशयन्निव बृहद्वक्षस्तां सत्रपां ततः ।
दीर्घबाहुः समाश्लिष्य स शनैरिदमब्रवीत् ॥ ४३६ ॥
न त्वं पद्मपलाशाक्षि न मे हृदयहारिणी ।
किं तु कालानुरोधायं सापराधं करोति माम्‌ ॥ ४३७ ॥
दासस्तवायं कल्याणि गुणैः क्रीतोस्म्यकृत्रिम् ।
अचिराञ्ज्ञातवृतान्ता ध्रुवं दाक्षिण्यमेष्यसि ॥ ४३८ ॥
कार्यशेषमनिष्पाद्य सज्जं मानिनि कंचन ।
अभोगे कृतसंकल्पं सुखानां त्वमवेहि माम्‌ ॥ ४३९ ॥
तामेवमुक्त्वा पर्यङ्कं साङ्गुलीयेन पाणिना ।
वादयन्निव निःश्वस्य श्लोकमेतं पपाठ सः ॥ ४४० ॥
असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृस्रं नो संध्यां भजते रविः ॥ ४४१ ॥
श्लोकेनात्मगतं तेन पठितेन महीभुजा ।
सा कलाकुशलाज्ञासीन्महान्तं कंचिदेव तम्‌ ॥ ४४२ ॥
गन्तुकामं च तं प्रातर्नृपं प्रणयिनी बलात्‌ ।
अर्थयित्वा चिरं कालमप्रस्थानमयाचत ॥ ४४३ ॥
एकदा वन्दितुं संध्यां प्रयातः सरितस्तटम्‌ ।
चिरायातो गृहं तस्या ददर्श भृशविह्वलम् ॥ ४४४ ॥
किमेतदिति पृष्टाथ तमूचे सा शुचिस्मिता ।
सिंहोत्र सुमहान्रात्रौ निपत्याहन्ति देहिनः ॥ ४४५ ॥
नरनागाश्वसंहारः कृतस्तेन दिने दिने ।
त्वय्यभूवं चिरायाते तद्भयेन समाकुला ॥ ४४६ ॥