पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
चतुर्थस्तरङ्गः ।

स्यात्कुतोत्र स भूपाल इति ब्रुवति पार्थिवे ।
जयापीडागमाशङ्कि पुरमासीद्भयाकुलम् ॥ ४५९. ॥
ततः पौरान्विमृश्यैवं जयन्तः क्षितिपोब्रवित् ।
प्रहर्षावसरे मूढाः कस्माद्वो भयसंभवः ॥ ४६० ॥
श्रुयते हि जयापीडो राजा भुजबलोर्जितः ।
केनापि हेतुना भ्राम्यन्नेकाक्येव दिगन्तरे ॥ ४६१ ॥
राजपुत्रः कल्लट इत्युक्त्वा कल्याणदेव्यसौ ।
तस्मै नियमिता दातुं निष्पुत्रेण सता मया ॥ ४६२॥
सोन्वेष्यश्चेत्स्वयं प्राप्तस्तद्रत्नाहरणेच्छया ।
रत्नद्वीपं प्रतिष्ठासोर्निधानासादनं गृहात्‌ ॥ ४६३ ॥
अस्मिन्नेव पुरे तेन भाव्यं भुवनशासिना ।
ब्रुयादेनं ममान्वेष्य योस्मै दद्यामभीप्सितम् ॥ ४६४ ॥
वाचि सप्रत्ययाः पौरा भूपतेः सत्यवादिनः ।
अन्विष्य कमलावासवर्तिनं तं न्यवेदयन्‌ ॥ ४६५ ॥
सामात्यन्तःपुरोभ्येत्य प्रयत्नेन प्रसाद्य तम्‌ ।
ततः स्ववेश्म नृपतिर्निनाय विहितोत्सवः ॥ ४६६ ॥
कल्याणदेव्यास्तेनाथ कल्याणाभिनिवेशिना ।
राजलक्ष्म्या व्यपास्ताया इव सोजिग्रहत्करम्‌ ॥ ४६७ ॥
व्यधाद्विनापि सामग्रीं तत्र शक्तिं प्रकाशयन्‌ ।
पञ्च गौडाधिपाञ्जित्वा श्वशुरं तदधीश्वरम् ॥ ४६८ ॥
गतशेषं प्रभुत्यक्तं सैन्यं संवाहयन्स्थितः ।
मित्रशर्मात्मजो देवशर्मामात्यस्तमाययौ ॥ ४६९ ॥
निजदेशं प्रति ततः स प्रतस्थे तदर्थितः।
अत्रे जयाश्रियं कुर्वन्पश्चात्तेथ सुलोचने ॥ ४७० ॥

१ सुता इत्युचितम्‌ । २ ममान्विष्य इत्युचितम्‌ । ३ ते च इतयुचितम्‌ ।