प्रपेदे यत्र कल्याणं स विरोधिवधानृपः ।
देशे कल्याणपुर कृत्तत्र कल्याणदेव्यभूत् ॥ ४८३ ॥
राजा मह्लाणपुरकृण्चके विपुलकेशवम् ।
कमला सा स्वनाम्नापि कमलाख्यं पुरं व्यधात् ॥ ४८४ ॥
महाप्रतीहारपीडाधिकारं प्रतिपद्य सः।
कल्याणदेवीदाक्षिण्यादकरोदधिकोन्नतिम् ॥ ४८५ ॥
उत्पत्तिभूमौ देशेस्मिन्दूरदूरतिरोहिता ।
कश्यपेन वितस्तेव तेन विद्यावतारिता ॥ ४८६ ॥
वचो मूर्खोयमित्येव कस्मैचिद्वदते स्फुटम् ।
सर्वज्ञानं ददच्चक्रे सर्वान्विद्याभियोगिनः ॥ ४८७ ॥
देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः ।
प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥ ४८८ ॥
क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः ।
बुधेः सह ययौ वृद्धिं स जयापीडपण्डितः ॥ ४८९ ॥
भूपतेरात्मना स्पर्धा चक्षमे न स कस्यचित् ।
आत्मनस्तु बुधैः स्पर्धां शुद्धधीर्बह्वमन्यत ॥ ४९० ॥
तावत्पण्डितशब्देभूद्राजशब्दादपि प्रथा ।
तैस्तैर्दोषैर्न तु म्लानिं कालान्तरवदाययौ ॥ ४९१ ॥
नृपतो विद्वदायत्ते राजसांमुख्यकाङ्क्षिभिः ।
गृहा बभूवुर्विदुषां व्याप्ताः सेवागतैर्नृपैः॥ ४९२ ॥
समग्रहीत्तथा राजा सोन्विष्यन्निखिलान्बुधान् ।
विद्वद्दुर्भिक्षमभवद्दथान्यनृपमण्डले ॥ ४९३ ॥
अध्यक्षो भक्तदशालायां शुक्रदन्तस्य मन्त्रिणः ।
विद्वत्तया थक्कियाख्यस्तेन स्वीकृत्य वर्धितः ॥ ४९४ ॥
१ पीठाधिकारं इतिस्यात् ।
१८
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४६
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
चतुर्थस्तरङ्गः ।