६ राजतरङ्गिणी
प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा ।
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥
वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता ।
भूभुजां कालसंख्यायां तद्वापञ्चाशतो मता ॥ ५४ ॥
ऋक्षाहक्षं शतेनाब्दर्यात्सु चित्रशिखण्डिषु ।
तच्चारे संहिताकारैरेवं दत्तोत्र निर्णयः ॥ ५५ ॥
आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
पद्धिकपञ्चद्वितः शककालस्तस्य राज्यस्य ॥ ५६ ॥
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया |
दिशा कैलासहासिन्या प्रतापी पर्युपास्थत ॥ ५७ ॥
विहाय देहं शेषाहेविषाश्लेषभयादिव ।
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ ५८ ॥
साहायकार्थमाहूतो जरासंधेन बन्धुना ।
स संरुरोध कंसारेर्मथुरां पृथुभिर्वलैः ॥ ५९ ॥
तेनोपकूलं कालिन्द्याः स्कन्धावारं निबनता ।
यादवीहसितैः सार्धं योधानां मीलितं यशः ॥ ६० ॥
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः ।
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ ६१ ॥
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी ।
मम्लौ विजयसंदेहे कि जयस्रग्जयश्रियः ॥ ६२ ॥
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने ।
भुवं काश्मीरिको राजा यादवस्तु जयश्रियम् ॥ ६३ ॥
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते ।
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ ६४ ॥