पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
चतुर्थस्तरङः

यः सर्वकालमवुधैः परिहस्यमानो
मुलाङ्कुराद्यपि न जातु पुरस्करोति ।
व्यापत्सु शास्त्रवितपी स फलं प्रसूय
पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ ५३० ॥
तमैच्छदभिसंधातुं विद्याविक्रमसंयुतः ।
मायाव्यरमुडिर्नाम राजा नेपालपालकः ॥ ५३१ ॥
अकृतप्रणातिस्तस्य प्रविष्टस्य स्वमण्डलम्‌ ।
अग्रात्सुदूरमध्वानं ससैन्योपससार सः ॥ ५३२ ॥
जिगीषोस्तस्य तु तथा तत्तत्पार्थिवनिर्जयः।
पृथक्प्रयत्ननिर्वतर्त्यो नाभूत्तदनुसारिणः ॥ ५३३
मग्नं क्वापि कचिद्दृश्यं प्रतिदेशं स वैरिणम्‌ ।
श्येनः कपोतं कक्ष्यान्तरिवान्विष्यञ्जगानम सः ॥ ५३४ ॥
ततो निःशेषितापाये तस्मिन्कुर्वन्स दिग्जयम्‌ ।
आसन्नाब्धेस्तटे सिन्धोः समुपावेशयद्बलम्॥ ५३५ ॥
प्रतस्थे दिवसैर्द्वित्रैरथ पूर्वार्णवोन्मुखः ।
कर्षन्वेलानिलस्पर्शोत्सृष्टध्वजपटाश्चमूः ॥ ५३६ ॥
ततस्तसिन्सरित्पारे दक्षिणस्मिन्क्षमापतेः।
तस्थावरमुडिः सैन्यं स्वच्छ्न्त्राङ्कं प्रकाशयन् ॥ ५३७ ॥
भूरिभेरीरवोद्भारि प्रबलं वीक्ष्य तद्बलम्।
प्रजज्वाल जयापीडः पीतसर्पिरिवानलः ॥ ५३८ ॥
स जानुदबघ्नं निर्विघ्नं पश्यन्नग्रे सरिज्जलम् ।
अपूर्वत्वादभूमिज्ञः क्रुद्धस्तर्तुं व्यगाहत ॥ ५३९. ॥
मध्यं प्राप्ते नृपे पूर्णा वेलया वर्धमानया ।
अकालेभूदगाधाम्भाः सार्णवाभ्यर्णगा सरित्‌ ॥ ५७० ॥