पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

{{|center=चतुर्थस्तरङ्गः|right=१४३ }}


भर्तुः स्वदेहत्यागेन स हितं कर्तुमुद्यतः।
दूतैररमुदेश्चक्रे प्रियवाग्भिः प्रलोभनम्‌ ॥ ५५२ ॥
जयापीडश्रिया साकं राज्यं कश्मिरमण्डले ।
दास्यामि तुभ्यमित्यस्य दूतैः स श्रावितोभवत्‌ ॥ ५५३ ॥
प्रप्तेषु प्रतिदूतेषु पूर्णायामथ संविदि ।
गृहीतकटको मन्त्रि नेपालविषयं ययौ ॥ ५५४ ॥
स कालगण्डिकासिन्धोरर्वाचि कटकं तटे।
स्थापयित्वा परं पारं ययौ मितपरिच्छदः ॥ ५५५ ॥
सामन्तैरग्रमयातैस्तं सभां संप्रवेशितम्‌ ।
सत्कृत्यारमुडिः प्रह्वं न्यवेशयत विष्टरे ॥ ५५६ ॥
अध्वश्रान्त इति क्षिप्रं प्रतिक्षिप्तः क्षमाभुजा ।
तद्विसृष्टोपचारस्तन्निनायावसथे दिनम्‌ ॥ ५५७ ॥
स चारमुडिभूबृच्च पीतकोशौ परस्परम्‌ ।
आसातां निर्जनेन्येद्द्युः कर्तव्यकृतनिश्चयौ ॥ ५५८ ॥
नृपमूचेथ सचिवो जयापीडार्जितं धनम्‌ ।
अस्ति सैन्ये तदाप्तानं तस्य वा विदितं च तत्‌ ॥ ५५९ ॥
दानेन भविता मोक्षस्तवेत्युक्त्वा विमोहयन्‌ ।
तस्मात्तं प्रष्टुमिच्छामि क्व वसु न्यस्तमित्यहम्‌ ॥ ५६० ॥
अत पव मया सैन्यं संहतं न प्रवेशितम्।
यदेतन्मध्यगाः शक्त्या न बन्द्धुं न्यासधारिणः ॥ ५६१ ॥
तस्मादेकैकमाहूय तेषु बद्धेषु सैनिकाः।
कोपमज्ञातहृदया न यास्यन्ति विवक्षवः ॥ ५६२ ॥
एवं विमोहितात्तस्मात्प्राज्ञोनुज्ञां स रुब्धवान् ।
बद्धस्य प्रययौ पार्श्वे जयापीडमहीभुजः ॥ ५६२ ॥