पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
राजस्तरङ्गिणी




तदालोकनजं शोकं गोपयन्धेर्यसागरः ।
गृहं तन्निर्जनं कृत्वा क्षिप्रं पप्रच्छ तं नृपम् ॥ ५६४ ॥
अपि त्वया निजं तेजो भित्तिभूतं न हारितम्‌ ।
तस्मिन्हि सति सिध्यन्ति साहसालेख्यकल्पनाः ॥ ५६५ ॥
स तं बभाषे निःशस्रो मन्त्रिन्नेवं व्यवस्थितः ।
अद्भुतं कर्म किं कु्र्यौ ध्रियमाणेन तेजसा ॥ ५६६ ॥
मन्त्रि तमूचे तेजश्चेद्राजन निसृतं तव ।
जानीहि तत्क्षणेनैव लङ्घितं विपदर्णवम्॥ ५६७ ॥
अपि वातायनादस्मात्पतित्वा निम्नगाम्भसि।
पारं गन्तुं समर्थोसि सैन्यं ह्यत्र निजं तव ॥ ५६८ ॥
राजा जगाद तं नास्मात्पतित्वोत्थीयतेम्भसः।
विना दृतिं दृतिश्चात्र दूरपाताद्विदीर्यते ॥ ५६९ ॥
तस्मान्नायमुपायोत्र न च नाम विमानितः ।
बहु मन्ये तनुत्यागमनिर्मथ्यापकारिणम्‌ ॥ ५७० ॥
ततो निश्चित्य सोमात्यस्तमवादीमहीपते ।
बहिः केनाप्युपायेन वहेस्त्वं नालिकाद्वयम् ॥ ५७१ ॥
प्रविश्यैकाकिनैवाथ द्रष्टव्यः संभृतौ मया ।
सरिढुत्तरणोपायः सोनुष्ठेयोप्यशङ्कितम्‌ ॥ ५७२ ॥
श्रुत्वेति निर्गतो गत्वा पायुक्षालनवेस्म सः।
सविलम्बं वहिर्वेलां तदुक्तामत्यवाहयत्‌ ॥ ५७२ ॥
एकाकी संप्रविष्टोथ तं ददर्श च्युतं क्षितौ ।
विपन्नं गरमुद्धध्य दृढया चेलचीरया ॥ ५७४ ॥
सद्योव्यापादिततनुःश्वासापूरितविग्रहः ।
अभेद्योहं तव दृतिर्मामारुह्य तरापगाम्‌ ॥ ५७५ ॥