पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


एकोननवते वर्षे स्वस्रीये शान्तिमागते ।
निर्विघ्नभोगास्तेभूवन्षड्विंशाब्दात्ययावधिः ॥ ७०३ ॥
अथ मम्मोत्पलकयोरुद्दारुणो रणः ।
रुद्धप्रवाहा यत्रासीद्वितस्ता सुभटैर्हतैः ॥ ७०७ ॥
कविर्वुधमनःसिन्धुशशाङ्कः शङ्कुकाभिधः ।
यमुद्दिश्याकरोत्काव्यं भुवनाभ्युदयाभिधम् ॥ ७०५ ॥
मम्मसूनुर्यशोवर्मा संग्रामाग्रे व्यपाहरत्‌ ।
स यत्र तेजः शूराणां नक्षत्राणामिवार्यमाः ॥ ७०६ ॥
अथोत्पायाजियतापीडं संग्रामापीडसंभवः ।
अनङ्गापीडनामाभूत्कृतो मम्मादिभिर्नृपः ॥ ७०७ ॥
मम्मोत्साहासहिष्णुत्वात्सम्भृतामर्षवैकृतः ।
तस्य राज्यं द्विसन्नासीत्सुखवर्मोपलात्मजः॥ ७०८ ॥
वर्षत्रयेणोत्पलके ततः प्रमयमागते ।
स चकारोत्पलापीडमजितापीडजं नृपम्‌ ॥ ७०९. ॥
तेषामाश्वयुजीराजसदृशानां रानां महीभुजाम्‌ ।
भूत्वापि भृत्याः कठिना विभूतिं केपि लेभिरे ॥ ७१० ॥
सांधिविग्रहिकस्तस्य रल्लो नाम विभूतिभाक्‌ ।
तस्मिन्कालेपि यश्चक्रे रत्नस्वामिसुरास्पदम् ॥ ७९११९ ॥
भेजुर्दार्वाभिसारादीन्देशानुत्तुम्ब्य भूपताम्‌ ।
विमलाश्वाग्रामभुजो नराद्या व्यवहारिणः ॥ ७१२ ॥
राज्ञां कार्कोटवंश्यानां क्षीणप्रायमभूत्कुलम्‌ ।
वंशस्तूत्पलकुल्यानां भुवि वैपुल्यमाययोौ ॥ ७१२ ॥
सामर्थ्योपनतप्रायपार्थिवत्वो व्यपद्यत ।
विद्धेषात्सुखवर्माथ शुष्काख्येन स्वबन्धुना ॥ ७१४ ॥