ततः शूराभिधो मन्त्री खुखवर्मात्मजेकरोत्।
राज्ययोग्योयमित्यास्थां सगुणेवन्तिवर्मणि ॥ ७१५ ॥
एकत्रिंशे स वर्षेथ प्रजाविप्लवशान्तये ।
विनिवार्योत्पलापीडं तमेव नृपतिं व्यधात् ॥ ७१६ ॥
यत्कृते विफलक्लेशाः आसन्पितृपितामहाः ।
पौत्रेण हेलया प्राप्ता सा सिद्धिः पुण्यकर्मणा ॥ ७९१७ ॥
कुम्भाः पयोनिधिपयोहरणप्रवृत्ताः
नित्यं वहन्ति किल ये विफलश्रमत्वम् ।
चित्रं क्षणादिह तदेकसमुद्भवेन
संदर्शितानिखिलवरिधिपानलीलाः ॥ ७१८ ॥
अभृत तदनुमूर्ध्नि राजलक्ष्मी-
घरितकटाक्षकृतादिपट्टबन्धे ।
कनकघटमुखान्नवाभिषेकं
झटिति पतन्तमवन्तिवर्मदेवः ॥ ७१९ ॥
संप्राप्तावुपदेष्टुमिन्दुतपनावुक्तं स्ववंशोद्भवै-
र्भूपालैर्नवराज्यतन्त्रिमिव स श्रोत्रद्वये धारयन् ।
राजा मण्डनकुण्डलद्वयमिषात्स्वच्छातपत्रच्छला-
लक्ष्मीविष्टरपुण्डरीकधरटितच्छायोदयो दिद्युते ॥ ७२० ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ
राजतरङ्गिण्यां चतुर्थस्तरङ्ः ॥
समाशतद्धये षष्टियुते मासेषु षट्सु च ।
निर्दशाहेषु कार्कोटवंशे सप्तदशाभवन् ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६६
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
चतुर्थस्तरङ्गः